________________
द्वादशः सर्गः
१२५
व्योम्नि शतधा भिन्नं प्रसृतं दीप्तिमन्ति मुखानि यस्य तद्ब्रह्मास्त्रम् । करालं भीषणं तुङ्गं वा फणमण्डलं यस्य तत्तथोक्तम् । 'करालो दन्तुरे तुङ्ग करालो भीषणेऽपि च' इति विश्वः। महोरगस्य शेषस्य वपुरिव । ददृशे दृष्टम् ॥
अन्वयः-व्योम्नि शतधा भिन्नं दीप्तिमन्मुखं तद् , करालफणमण्डलं महोरगस्य वपुः इव ददृशे।
व्याख्या-व्योम्नि = आकाशे शतधा = शतप्रकारं भिन्नं = प्रसृतं दीप्तयः सन्ति येषु तानि दीप्तिमन्ति =द्युतिमन्ति मुखानि = अग्रभागाः यस्य तत् दीप्तिमन्मुखम् तत् = ब्रह्मास्त्रम् करालं = भीषणं, तुंगं वा फणस्य = फणायाः मण्डलं = समूहः यस्य तत् करालफणमण्डलं तत् “कराल दन्तुरे तुंगे भीषणे चाभिधेयवत्" इति मेदिनी। उरसा = वक्षस्थलन गच्छतीति उरगः । महांश्चासौ उरगः इति महोरगः, तस्य महोरगस्य = शेषनागस्य वपुः = शरीरम् इव = यथा ददृशे = दृष्टम् , तत्रत्यजनैरिति शेषः ।
समासः-दीप्तिमन्ति मुखानि यस्य तत् दीप्तिमन्मुखम् । महांश्चासौ उरगः महोरगस्तस्य महोरगस्य । करालं फणानां मण्डलं यस्य तत् करालफणमण्डलम् ।
हिन्दी-आकाश में सैकड़ों प्रकार से ( रूप में ) फैले हुए तथा चमकीले मुख ( अग्रभाग = फलक ) वाले उस ( राम के बाण ) ब्रह्मास्त्र को ऐसा लोगों ने देखा मानो भयंकर एवं ऊँचे-ऊँचे फणों के मण्डल को लिये शेषनाग हो ॥ ९८ ॥
तेन मन्त्रप्रयुक्तेन निमेषार्धादपातयत् ।
स रावणशिरःपङ्क्तिमज्ञातव्रणवेदनाम् ॥ ९९ ॥ स रामो मन्त्रप्रयुक्तेन तेनास्त्रेणाशातव्रणवेदनामतिशैम्यादननुभूतव्रणदुःखां रावणशिरःपङ्क्तिं. निमेषार्धादपातयत्पातयामास ॥
अन्वयः-सः मंत्रप्रयुक्तेन तेन अज्ञातव्रणवेदनां रावणशिरः पंक्ति निमेषार्धात् अपातयत् ।
व्याख्या-सः =रामचन्द्रः मंत्रेण = ब्रह्मदेवताकेन प्रयुक्तं = प्रेरितम् इति मंत्रप्रयुक्तम् तेन मंत्रप्रयुक्तेन तेन = ब्रह्मास्त्रेण न शाता, अज्ञाता। व्रणानां =क्षतानां वेदना =पीडा इति वणवेदना, अज्ञाता = अननुभूता व्रणवेदना यया सा ताम् अज्ञातव्रणवेदनाम् , अतिशीघ्रत्वात्, इत्यर्थः। रावणस्य = राक्षसराजस्य शिरांसि-मस्तकानि तेषां पंक्तिः = परम्परा, इति रावणशिरःपंक्तिस्तां रावणशिरःपंक्तिम् निमेषस्य = क्षणस्य अर्ध तस्मात् निमेषार्धात् = क्षणार्धेनेत्यर्थः अपातयत् = पातयामास । रामः ब्रह्मास्त्रेण क्षणार्धे एव रावणमस्तकानि अच्छिनत् इत्यर्थः ।
समासः-मंत्रण प्रयुक्तं मंत्रप्रयुक्तं तेन मंत्रप्रयुक्तेन। निमेषस्य अध, तस्मात् निमेषार्धात् । रावणस्य शिरांसि रावणशिरांसि, रावणशिरसां पंक्तिः तां रावणशिरःपंक्तिम् । न ज्ञाता अशाता, अज्ञाता व्रणानां वेदना यया सा ताम् अज्ञातव्रणवेदनाम् ।
हिन्दी-मंत्र से ( मंत्र पढ़कर ) चलाए हुए उस ब्रह्मास्त्र से राम ने, रावण के शिरों की पंक्ति को आधे क्षण में ही काटकर गिरा दिया, जिसमें कि शिरों के कटने पर हुए घावों की पीड़ा भी रावण को ज्ञात न हुई ।। ९९ ।।