________________
10
420
424
428
प्रामलक्षणम् नृपाणां वाऽथ वैश्यानां योग्यमुक्तं पुरातनैः । नन्दनन्दपदं वाऽपि चण्डितं स्थण्डिलं तु वा ।। २०६॥ तद्यथेष्टपदं शिल्पि(ल्पी) ग्रामे च परिकल्पयेत् । पैशाचे थपदे चैव महारथ्या द्विपक्षयुक् ॥२१०॥ एतत्तु परितः कुर्यात्तस्यान्तः प्रवि[दि]ष्टके । पेचकं वाऽथ पीटं वा रथ्यायुक्तं तु विन्यसेत् ।। २११ ॥ अथवा तन्महापीठे तत्र संयुक्तवीथिका । पूर्वपश्चिममायामं दक्षिणोत्तरदीर्घकम् ।। २१२ ।। तन्मध्ये वैकवीथी स्यात्पैशाचाख्ये पदे बुधः । कृत्वा पीठपदे चैक(का) मध्ये वीथीं न कारयंत् ।। २१३॥ पूर्ववदिक्षु चायाम द्विद्विरथ्यां प्रकल्पयेत् । महापीठपदे रथ्या दिक्षु दिक्षु त्रयं(यी) तथा ॥ २१४॥ तेषामेव महारथ्यास्तस्मिन् विस्तारमुच्यते । षट्सप्ताष्टकदण्डं वा नन्दनाटकरुद्रकम् ॥ २१५ ।। एतत्सर्व (प्रयं सर्वः) महावीथीविस्तारः परिकीर्तितः । यत्पदे तत्पदं ज्ञात्वा तत्तत्प्रत्येक(क) तत्पदे ।। २१६॥ पुराकृतं पदं न्यस्य रथ्यान्तं परिकल्पयेत् । तत्पैशाचपदे देशे वावृता वीथिका भवेत् ॥ २१७ ॥ रुद्रथ्यान्तः प्रदेशे तु प्रागुदगायते तथा । त्रिपन्चसप्तरथ्या वा प्र(चा)ष्टमं च व(ब)न्धं भवेत् ।। २१८ ॥ एकद्वित्रिचतुर्वाऽपि तिर्यमार्ग तथैव च । चतुष्कोष्ठं तु युक्तं चेञ्चतुष्कं चैकाष्टसन्धिभिः ।। २१६ ॥ नवकोष्टकयुक्तं चेञ्चतुष्कं च चतुष्टयम् । सन्ध्या(द्विर)ष्टकसमायुक्तं सन्धिभिभद(त्रिद्वाविंशै)शैर्युतम् ॥ २२० । चतुष्कं नवकं कुर्यादेवमन्तःप्रदेशके । तत्तत्प्रकोष्ठ के प्रत्यक् प्रत्यग्ग्रामाकृतिस्तथा ॥ २२१ ॥ प्रागुक्तवत्प्रदेशे तु देवतास्थापनं बुधैः । मण्डपादि च भूपानां वेश्म कुर्यात्तु पूर्ववत् ॥ २२२ ॥
482
436
440
444