________________
४६
मानसारे
चतुर्दितु विदिवपि दुर्गाङ्ग (ङ्ग) गणपालयम् । सुग्रीवस्य पदं चैव षण्मुखस्यालयं भवेत् ॥ १६५ ॥ अग्निं (ग्नौ) पूषपदे वाऽपि ज्वरदेवालयं भवेत् । प्रादित्ये तु पदेवाऽपि भास्करस्यालयं भवेत् ॥ १६६ ॥ सौम्य वापि मुख्ये वा भुवनेशालयं भवेत् । तत्तत्पदे [च] मध्ये तु विष्णुरुद्रालयं भवेत् ॥ १६७ ॥ पतानि स्थानानि (स्थानान्येतानि ) परिता नराणां सदनं भवेत् । अन्तर्बीथी चैकपक्षं(क्षा) बाह्यवीथी द्विपक्षकम् (का) ।। १६८ ॥ एवमालयवास्तु स्याद्वाह्ये पचाभिरक्षणात् । एवमन्तर्गतान्देवान् बहिरङ्गे यथेच्छया ।। १६६ ॥ शुद्धा चैव प्रतिष्ठा चेल्लिङ्गपाशुपतं तथा ।
तिष्ठे (ठ) तु चोक्तवत्स्थापनं भवेत् ॥ २०० ॥ अन्येषां सर्वलिङ्गानां नगराणां बहिरङ्गतः ( र्भवेत् ) । वैखानस प्रतिष्ठा चेदन्तस्थापनमिष्यते ।। २०१ ।। विष्णुदेवैरि (वस्यं)ति प्रेोक्तं पाञ्चरात्रं (त्रो) बद्दिर्भवेत् । दुर्गा गणपतिं चैव बौद्धं जैनं (न)गतालयम् ।। २८२ ।। अन्येषां षण्मुखादीनां स्थापयन्नगराद्वहिः । तत्तदेवालयं वाऽपि कुर्यादोषो न विद्यते ।। २०३ ।। सर्वेषु नगरेषु संस्थापनमिष्यते ।
नगरस्य बहिश्वोदक्पूर्वे वाऽप्यतिदूरतः ।। २०४ ।। चामुण्डायं [च] कुर्यादुत्तराभिमुखं तथा । तस्य(तस्माद्) देवालयात्पूर्वं चण्डाल कुटिकान्वितम् ॥ २०५ ॥ पूर्वे चोत्तरदेशेऽथ पश्चिमे वाऽथ नैर्ऋते ।
नगरात् बहिर्देशे तत्सेना लोकनार्थकम् ॥ २०६ ॥
उत्तुङ्गवेदिकाचा (को) [[प] चोक्तवन्मण्डपं भवेत् । शेषं प्रागुक्तवत्कुर्याद्युक्त्या च शिल्पि (ल्प) वित्तमः ।। २०७ ।।
प्रस्तरस्य तु विन्यासलक्षणं वक्ष्यतेऽधुना ।
श्रायतं वा समं वाऽपि प्रस्तरस्याकृतिस्तथा ।। २०८ ॥
[ श्रध्यायः
392
396
400
404
408
412
416