________________
262
प्रामलक्षणम् दक्षिणे कर्मकारस्य तत्र श्रेण्यालयं भवेत् । उत्तरे चाग्निदेशे वा पेटिकारालय भवेत् ॥ १२५ ।' पश्चिमे पूर्वके वाऽपि शस्त्रकर्मकरालयम् । उत्तरे धर्मकारस्य तच्छृण्यालयमेव वा ॥ १२६ ॥ अन्यथा(दा)वरणा:(यम्) सर्वमन्य[त्] कर्मोपजीविनाम् । एवं नराख्वयं प्रोक्तं देवानामधुनोच्यते ॥ १२७ ॥ प्रार्यादिषु चतुर्दितु प्रामस्यापि चतुर्दिशि । एवं यथेष्टदिग्देशे विष्णुधिष्ण्यं प्रकल्पयेत् ॥ १२८ ॥
256 प्रथवा बहिरङ्गे तु चेष्टदिग्विष्णु(ष्णो)रालयम् । इन्द्रादिषु चतुर्दितु विष्णुस्थानं तु राक्षसे ॥ १२६॥ पूर्वके श्रीधरं प्रोक्तं दक्षिणे वामनं तथा । पश्चिमे वासुदेवं वा चादिविष्णुं जनार्दनम् ॥ १३०॥
260 उत्तरे केशवं प्रोक्तं नारायणमथापि वा । अन्तः प्रागुत्तरे देशे विष्णुमूर्ति (र्ति) यथेष्टकम् ॥ १३१ ॥ पितृदेवेशकोणे वा य(त)था नृसिंहालयं भवेत् । अग्निकोणे य(त)था राम गोपालालयमेव वा ॥ १३२ ॥ मित्रे च त्रितलं कुर्यात्स्थानकं चादिभूमिके। द्वितीयं(ये) चासनं प्रोक्तं तृतीये शयनं भवेत् ॥१३३ ।। प्रयवा स्थानकं चोर्ध्वं शयनं मूलकस्थले । . इष्टदिग्विष्णुहार्णा द्वारं कुर्याद्विचक्षणः ॥ १३४ ॥
268 प्रामस्याभिमुखं विष्णुं नरसिंह पराडुखम् । लक्ष्मी नृसिंहश्चैवाऽपि प्रामस्याभिमुखो भवेत् ॥१३५॥ रुद्र रुद्रजये वाऽपि इ(त्वि)न्द्रश्चन्द्रजयेषु च । प्रापवत्स्या(त्सा)पवत्स्यश्च साविन्द्र(त्र)श्चा(च) सान्द्रक(सवित्रके)॥ १३६ ॥ 272 ईशे वाऽथ जयन्ते वा पर्जन्यस्य पदेऽपि वा। एवमीशालयं कुर्याद्रामस्य तु परामुखम् ॥ १३७ ॥ पूर्वके पश्चिमे वाऽपि तत्रैवाभिमुखं भवेत् । अन्य[त्सकवरूपाणां हर्म्यद्वार यथेष्टतः ॥ १३८॥
.276
264