________________
३८
[अध्यायः
168
172
176
मानसारे समविस्तारमायाममायाधिकमथापि वा। चण्डिताख्यपदं न्यासं [वाऽपि ] मण्डूकं परिकल्पयेत् ॥८३ ।। प्रामे चायतविस्तारौ समे(मौ) चेत्कल्पयेत्सुधीः । प्रायाधिकं यथा ग्रामे नन्दनन्दपदं भवेत् ॥ ८४ ॥ अथवा स्थण्डिलं न्यस्य(सेत्) समायाममित्यपि वा। पदं च चण्डित(तं) तन्मध्ये ब्रह्मणश्च चतुष्पदम् ॥ ८५ ॥ तद्वहिः परितो भागे दैवकं च (द्वा)इशांशकम् । तद्वाह्ये विंशतिपदं परितो मानुषं भवेत् ॥ ८६ ॥ तदहिचावृतांशेन पैशाचं चाष्टविंशति(तिः)। एवं तु चण्डितं प्रोक्तं परमशायिकमुच्यते ।। ८७ ॥ मध्ये नवपदं बाह्य दैवकं षोडशांशकम् । तद्वहिर्मानुषं चैव चतुर्विशपदं भवेत् ॥ ८८ ॥ पैशाचं बाह्यमावर्त तात्रिंशकं पदम् । स्थण्डिल (ल)पदमध्ये च ब्रह्मणस्यै(ण ए)कमात्रकम् ।। ८६ ॥ दैवकं चाष्टभागं स्यान्मानुषं षोडशांशकम् । तदहिश्व चतुर्विशत्पदं पैशाचमेव च ॥१०॥ एषां पदैर्यथायोग्यं विन्यसेच्छिल्पि(ल्प)वित्तमः । तत्पैशाचपदं चोक्तं नन्द्यावर्ताकृतिर्भवेत् ॥ ६१ ॥ प्राचीरथ्योत्तरा(रमार)भ्य स्यादक्षिणायत(त) निर्गमम् । दक्षिणावीथीपूर्वादिपश्चिमायतनिर्गमम् ॥ १२ ॥ पश्चिमवीथी(थ्याः) दक्षिण्या(णा)दुत्तरायत(त) निर्गमम् । उदग्वीथी(थ्याः) प्रतीच्यादितत्पूर्वायत(त) निर्गमम् ॥ ६३ ।। नन्द्यावर्तावृतावीथीमे(ए)वमूह्य(ह्या) विचक्षणैः । दक्षिणोद्गद्वयोर्वाऽपि प्राक्प्रत्यगवि(ग्वि)तयो[र]पि [वा] ॥ ६४ ॥ अन्तर्वीथीनां मूलाग्रौ(प्रयोः) चैकपलं प्रयोजयेत् । पार्श्वयोश्च द्विविधं स्या िपक्षमुक्तं पुरातनैः ।। ६५ ॥ एवं बाह्यवीथी स्यादन्तर्वीथिरि(थी त्वि)होच्यते । प्रायते दीर्घरथ्या स्याद्विस्तारे दीर्घमेव च ॥६६॥
180
184
188
192