________________
ग्रामलक्षणम् सितगुरुशशिबुधवारमेवं शुभं भवेत् । शुभयोग(गो) भवेद्य(च्चे)त्तु वारदोषो न विद्यते ॥४१॥ सौरवारादिवारेषु वारयुक्तं चतुर्दिने । गणैस्तु विशाखादिस्वातिकान्तं क्रमालतः ॥ ४२ ॥ गण्डं च मृत्युयोगं च सिद्धियोगमिदं(ति) विदुः। प्रमावस्या[म]ष्टमी चैव(च) नवमी च विवर्जयेत् ॥ ४३ ।। प्रन्यथा शुभदं सर्व तिथिरेवं प्रशस्यते । प्रष्टमं(म)राशिवर्ज च अन्ये(तथान्य) शुभराशयः ॥ ४४ ॥ गणे वा(चाss)सुरमानुष्यं विना अन्ये(न्यो) गणे(यो) शुभम् (भः)। सौरादियदि(शनि)वारान्त तत्सर्व त्रिगुण[स]समम् ॥ ४५ ॥ मश्विन्यादिदिनं हृत्वा तच्छेषं नयनं भवेत् । प्रथमं चैकनेत्रं च द्वितीयं च द्विनेत्रकम् ॥ ४६॥ तृतीयं च इति(तथा) प्रोक्तं नन्दात्षट्क्रमात सुधी। अथ दण्डक[स्य] विन्यासलक्षणं वक्ष्यतेऽधुना ॥४७॥ चतुरश्रायतं कृत्वा समतारं न विद्यते । चतुरश्रायतं व तद्वप्रायतमेव च ॥४८॥ एतत् (स्मिन्) त्रितयं वाऽपि पञ्चरथ्यामथापि च । तस्य मूलाग्रयोर्वीथीं न कुर्याद्वाऽथ कल्पयेत् ॥ ४६॥ तदेव तिर्यङ्गध्ये [ए]कवीर्थी कृत्वा विना तथा । एकद्वित्रिचतुष्पश्चदण्डं रथ्याविशालकम् ॥५०॥ मध्यरथ्यावृता वीथी सममेवं विधीयते । अन्येषां चान्तरथ्यानां वा तत्समं तु वा ॥५१ ।। मूलाप्रयोईिरथ्या(थ्ये) च पक्षमेकं तथाश्रयम् । मुख्या वीथी द्विपक्ष(क्षा) स्याद्रहतारं त्रिदण्डकम् ।। ५२ ॥ तञ्चतुष्पञ्चदण्डं वा युक्तमा तद्गृहविस्तृतम् । विस्तारद्विगुणं वाऽथ त्रिगुणं वा तदायतम् ॥ ५३॥ परितः परिखा बाह्ये वप्रयुक्तं तु कारयेत् । चतुरं च संकल्प्य पूर्वादि(दौ) च चतुर्दिशि ॥ ५४॥