________________
३४
मानसार
एवं तु वैश्यकानां तु योग्यं तत्कार्मुकं भवेत् । त्रिंशद्दण्डं समारभ्य त्रित्रि(द्विद्वि) दण्डविवर्धनात् ॥ २७ ॥ शतदण्डावसानं(नः) स्याद्विस्तारं (र: ) परिकीर्तितम् (तः) । तत्तद्विदण्डेन वर्धये गुणान्तकम् ॥ २८ ॥ एवं चतुर्मुखं प्रोक्तं शूद्राणामेव योग्यकम् । मुख्यगेहप्रदेशान्तं विस्तारायाम (मं) कल्पयेत् ॥ २६॥ तद्बहिः परितः कुर्यात्तस्मात्तु तदनन्तरे । दशा दिशतदण्डान्तं द्विद्विदण्डेन वर्धनात् ॥ ३० ॥ एवं ग्रामं (म) प्रसारं च तद्बहिर्व प्रसंयुतम् । परितः परिखा (खां) बाह्यं कुर्याद्रामेषु सर्वशः ॥ ३१ ॥ एतेषां ग्रामरूपाणामायादिलक्षणं तथा ।
नन्दायामसमूहे वा चायते वाऽथ विस्तरे ।। ३२ ।।
परिणाहे पदे वाऽपि प्र (चा) यादिशुद्धं (द्धिं च कारयेत । केचित्वायतने चैवमार्य च तद्दिने भवेत् ॥ ३३ ॥ परिणाहे तिथिर्वारं व्यययोनिश्च विस्तरे ।
वसुभिर्गुयितं भानु[भ] न्यायमष्टशिष्टकम् || ३४ ॥ प्रष्टाभिर्वर्धिते क्षं हत्वा शेषं क्षपिष्यते ।
नवभिर्वर्धयेत्पङ्किः (ङ्ख्या) हृत्वा शेषं व्ययं (यो) भवेत् ॥ ३५ ॥ गुणनागं च योनि (निः) स्याद्वृद्धिहान्या (न्यौ) यथाक्रमम् । नन्दवृद्धा ऋषिं (षिया) हृत्वा तच्छेषं वारमेव च ॥ ३६ ॥ नवभिर्गुणिते त्रिंशत् (ता) चपेच्छेषं तिथिर्भवेत् । एवमायादिषड्वर्ग कुर्यात्तत्र विचक्षणैः (यः) ॥ ३७ ॥ प्रायं सर्वहरं पूर्ण (पुण्यं) व्ययं सर्वगतेन हि । प्रायाधिक्यं व्ययं हीनं सर्वसम्पत्करं तथा ॥ ३८ ॥ यही (हानिर्) व्ययाधिक्यं सर्वदोषकरं भवेत् । शुभदं पूर्ण नक्षत्रमशुभं कर्ण ऋतकम् ॥ ३८ ॥ युग्मायुग्माद्यतुर्य षडष्टनन्दशुभर्त्तयुक् । द्वितीयपर्यायस्यार्थे गद्यनैश्च शुभावहम् ॥ ४० ॥
[ चध्यायः
56
60
64
68
72
76
80