________________
S
१]
“
ग्रामलक्षणम्
षष्टे तु (षष्ट्यैकं) दण्डमारभ्य द्विद्विदण्डविवर्धनात् ।
सैकार्की (त्रि) शतं दण्डात् (ण्डं) त्रि (शत) सप्तद (विं) शविस्तृतम् ॥ १३ ॥ युग्मायुग्मं तु दण्डेन सर्वतोभद्रमेव च ।
भूसुरामरयोग्यं स्यात्तदायामविशालकम् ॥ १४ ॥ नन्दावर्त (दैत्रि ) ग्राम ग्राम (मे) द्विद्विदण्डविवर्धनम् । पश्चषष्ट्यधिकं पञ्चशतदण्डावसानकम् ।। १५ ।। एव (वं) पञ्चद्विशतं विशालं परिकीर्तितम् । विस्तारायामस्तत्तुल्यो [पादोनाऽर्धाधिकस्तथा] ॥ १६ ॥ (विस्ता) रं द्विद्विदण्डेन वर्धयेद्विगुणान्तकम् । नन्द्यावर्तमिदं प्रोक्तं वर्तव्यं ( वस्तव्यं) देवभूसुरैः ॥ १७ ॥ [प्रथातः] पद्मकनामप्रामलक्षणमुच्यते ।
शतदण्ड (ण्डं) समारभ्य द्विद्विदण्डविवर्धनात् ॥ १८ ॥
एकसहस्रदण्डान्तं (न्तो) विस्तारं तत् समं मतम् ( रस्तत्समो मतः) । परमाधिकपञ्चाशश्चतुः शतविशालकम् ॥ १६ ॥ विप्रयोग्यं तथा पद्ममेवमुक्तं पुरातनैः ।
[ एतच्चत्वारि ] ग्रामविस्तारप्रमाणलक्षणम् ।। २० ।। [अ] स्वस्तिकविन्यास (विस्तार) मानलक्षणमुच्यते । एकद्विशतदण्डादी विंशदण्डविवर्धनात् ॥ २१ ॥ द्विसहस्रे(स्रै)कदण्डान्तं (न्तो) विस्तारं (र: ) परिकीर्तितम् (तः) । तस्माद्विंशतिदण्डेन वर्धयेत्तत्समाधिकम् ॥ २२ ॥
तस्यायाममिदं (मो ह्ययं) प्रोक्तं ( क्तः) स्वस्तिकं भूपयोग्यकम् । [मतः परं] प्रस्तर विन्यास (विस्तार) लक्षणमुच्यते ॥ २३ ॥ त्रिशतदण्डमारभ्य शतदण्डविवर्धनात् ।
सहस्रद्वयदण्डान्तं प्रस्तरं विस्तृतं भवेत् ॥ २४ ॥ पचषष्टिदण्डादैा द्विद्विदण्डविवर्धनात् ।
युग्मायुग्मं तथा वाऽपि दण्डं पञ्चशतान्तकम् ।। २५ ।। एतत् (एष) कार्मुक विस्तारं त ( रस्त ) स्यायाममि ( म इ) हे । च्यते
तस्मात्तु शतदण्डेन वर्धागुणान्तकम् ।। २६ ।।
5
३३
28
32
36
40
44
48
52