________________
मानसारे
[अध्याय:
ग्रामलक्षणम् वश्यऽहं प्रामविन्यासं शास्त्रे संक्षेपतः क्रमात् । दण्डकं सर्वतोभद्रं नन्यावर्त तु पद्मकम् ।। ९ ।। खस्तिकं प्रस्तरं चैव कार्मुकं च चतुर्मुखम् । एवं चाष्टविधं प्रामं तत्तदूपेण संज्ञितम् ॥२॥ प्रथम प्राममानं च द्वितीयं पद(द) विन्यसेत् । तृतीयं तद्वलिं दत्वा चतुर्थ प्राम(म) विन्यसेत् ॥ ३॥ पञ्चमं गृह(इं) विन्यस्य तत्र गर्भ विनिक्षिपेत् । पव॑ गृहप्रवेशं च तन्मानमधुनोच्यते ॥४॥ धनुर्पहैश्च पदण्डं तद्दण्डेनार्पयेद्धः । पञ्चविंशतिदण्डायैः(दा) द्विद्विदण्डविवर्धनात् ।। ५ ॥ एकाधिकशतान्तं स्यान्नवत्रिंशद्विशालकम् । एवं तु दण्डकं प्रोक्तं तस्यायाममि(म इ)होच्यते ॥ ६॥ विस्ताराष्विद्विदण्डेन वर्धयेद्विगुणान्तकम् । य:(यतः) शुभायादिकर्मार्थ दण्डहीनाधिकं तु वा ।। ७ ।। वानप्रस्थमिदं योग्यं क्षुद्रदण्डकमीरितम् । एकत्रिंशतिदण्डा(शदण्डमा)ये द्विद्विदण्डेन वर्धनम् ॥८॥ सप्ताधिकशतान्तं स्यात्सप्तषविशालकम् । दीर्घ प्रागुक्तवत्कुर्यादेतहण्डक(क) मध्यमम् ।।६।। सप्तविंशतिदण्डादि(शदण्डमादी) द्विद्विदण्डविवर्धनात् । त्रयोवेददशाधिक्यशतदण्डावसानकम् ॥१०॥ दण्डकं चोत्तम पचचत्वारिंशद्विशालकम् । एतत्तु दण्डकं प्रोक्तं भूसुराणां तु योग्यकम् ॥ ११ ॥ पञ्चाशदण्डमारभ्य द्विद्विदण्डविवर्धनात् । द्विशतं दण्डान्तकं स्यात् षट्सप्ततिविशालकम् ।। १२ ।।