________________
२४
मानसारे
नीलाम्बरधरं चैव यज्ञसूत्रोत्तरीयधृत् (तम् ) । अभिवर्ण चाग्निदेव मेषवाहनसंयुतम् ॥ ६७ ॥ द्विभुजं च त्रिनेत्रं च ज्वालासदृशमूर्ध्वजम् ।
स्रुक्स्रुवं पाणियुगले स्वाहादेव्या च संयुतम् ॥ ६८ ॥ सर्वाभर संयुक्तं शेष प्रागुक्तवद्भवेत् ।
महिषारूढं त्रिये (नेत्रं च ज्वालासदृशकृन्ततम् ॥ ६६ ॥ त्रिशूलं दतिथे हस्ते पाशं वामकरेऽधरे ।
धूम्रवर्ण रक्तवस्त्रं देव्या यम्या च संयुतम् ॥ १०० ॥ यमं ध्यात्वा यथेाक्तवत् सर्वाभरणभूषितम् ।
नरारूढं निर्ऋतिं द्विभुजं च द्विनेत्रकम् ।। १०१ ।।
[म] सव्यहस्ते गर्दा चैव वरदं वामहस्तके । श्यामवर्णे (मिन्द्रदेव्यां (व्या) च संयुक्तं रक्तवस्त्रकम् ॥ १०२ ॥ कण्डमकुटेोपेतं ध्यात्वा शेषं तु पूर्ववत् ।
वरुणं मकरारूढं भरण्या सह सेवितम् ।। १०३ ॥ द्विभुजं च द्विनेत्रं च करण्डम कुटान्वितम् । पाशाङ्कुशधरं चैव धवलं रक्त (क्तवाससम् ॥ १०४ ॥ यज्ञसूत्रोन्तरीयं च नानाभरणभूषितम् । वायुदेव मृगारूढं मारया सह सेवितम् ।। १०५ ॥ द्विभुजं च त्रिनेत्रं च पाशं च वरदं तथा । शेषं च पूर्ववद्धनात्वा शशिरूपमिहोच्यते ।। १०६ ।। द्विभुजं च द्विनेत्रं च पङ्कजयधारिणम् 1 प्रश्वारूढं चन्द्रिका संयुक्तं श्वेतवर्णकम् ।। १०७ ।। श्वेताम्बरधरं यज्ञसूत्रं च मकुटान्वितम् । सर्वाभरणसंयुक्तं सौम्यं ध्यात्वा यथोक्तवत् ॥ १०८ ॥ पर्जन्यं रक्तवर्ण च मद्दा (जय ) न्तं श्यामवर्णकम् ।
महेन्द्र पीतवर्ण च द्विभुजं च द्विनेत्रकम् ।। १०६ ।।
करण्डमकुटोपेतं सर्वाभरवशोभितम् ।
पाशपद्मावधारौ च (अधरौ चैव) रक्तवस्त्रोंत्तरीयको (कम् ॥ ११० ॥
[ चध्यायः
196
200
204
208
212
216
220