________________
मानसारे
[अध्यायः
140
144
48
पूषस्य(ष्णश्च) पदमेकं स्याञ्चाग्निकोणस्य पश्चिमे । विधात(तथ)स्य पदं चैकं पूषकस्य तु पश्चिमे ॥६६॥ गृहक्षतस्यैकपदं विधात(तथ)स्य पश्चिमे । गन्धर्वस्य पदं चैकं धर्मदेवस्य पश्चिमे ।। ७० ।। भृङ्गराजस्यैकपदं गन्धर्वस्य तु पश्चिमे । वृष(मृश)स्यैकपदं शरत भृङ्गराजस्य पश्चिमे ॥ ७१ ।। दीवारिकस्यैकपदं गगनस्य तु चोत्तरे । सुप्रीवस्य पदं चैकं दौवारिकस्य चोत्तरे ॥ ७२ ॥ पुष्पदन्तस्यैकपदं सुग्रीवस्य तु चोत्तरे । असुरस्यैकपदं शस्तं वरुणस्य तु चोत्तरे ॥ ७३ ॥ शोषकस्य पदं चैकं चासुरस्य तु चोत्तरे । रोगस्यैकपदं प्रोक्तं शोषकस्यैव चोत्तरे ॥ ७४ ।। नागस्यैकपदं शस्तं पवनस्य तु पूर्वके। मुख्यस्यैकपदं ज्ञात्वा नागस्यैव च पूर्वके ।। ७५ ।। भल्लाटस्य पदं चैकं प्रोक्तं मुख्यस्य पूर्वके । मृगस्यैकपदं शस्तं सोमदेवस्य पूर्वकम् ।। ७६ ॥ अदितेस्तु पदं चैकं शस्त मृगात्तु(गस्य) पूर्वके । अदितीशानयोर्मध्ये चोदिते(ते)कपदं भवेत् ।। ७७ ।। हेमवर्ण चतुर्हस्तं चतुर्वक्राष्टलोचनम् । श्वेतवस्त्रजटामालियज्ञसूत्रोत्तरीयकम् ॥ ७८ ॥ कर्णकुण्डलसंयुक्तमष्टकर्ण चतुर्गलम् । कमण्डलुं चाक्षमाला च वामसव्यकरौ(राभ्या) धृता( तम् ) ॥ ७६ ॥ प्रभय(ये) दक्षिण पूर्वेऽन्तस्य वा वरदे [३]तरे । सर्वाभरणसंयुक्तं गण्डेन तिलकान्वितम् ॥ ८॥ पदे सर्वेषु मध्ये तु सृष्ट्यर्थमिति रूपकम् । एवं पितामहं ध्यात्वा(येत्) पद्मसिंहासनोपरि ॥८१ ।। रक्तवर्ण चतुर्हस्तमेकवत्रं द्विनेत्रकम् । करण्डमकुटोपेतं रक्तवस्त्रोत्तरीयकम् ॥ ८२ ॥
152
166
160
164