________________
मानसारे एकोनविंशति तथा चैव(सैकषष्टिशतत्रयम् । गणितं पदमित्येवं तथा विंशतिकं ततः ॥ १३॥ चतुःशतपदं चैव प्रोक्तं कुर्याद्वि(सूर्यवि)शालकम् । तथा चैकविंशतिकं चैकपञ्चाष्टमाधिकम् ॥ १४ ॥ चतुःशवपदं युक्तं सुसंहितमितीरितम् । सवाऽपि द्वाविंशतिकं वेदाशीतिचतुःशतम् ।। १५ ।। पदं सुप्रतिकान्त स्यान्त्रयोविंशद्विधानके । नवविंशत्पञ्चशतं पदमेतद्विशालकम् ।। १६ ॥ चतुर्विशद्विधाने तु षडाधिक्य(क्य )ससप्तति । पञ्चशतपदयुतं विप्रगर्भमिति स्मृतम् ॥ १७ ॥ पञ्चविंशद्विधाने तु पञ्चविंशत्सषट्शतम् । पदं विवेश(विश्वेश) संज्ञात्वा(य) नाममे(त्वे)वं. प्रकीर्तितम् ॥१८॥ षड्विंशतिविधाने तु षट्सप्ततिकसंयुतम् । षट्शतं पद(द) संज्ञात्वा(य) विपुलं(ल)भोगमिति (गं तु) स्मृतम् ॥ १६ ॥ सप्तविंशद्विधाने तु नवविंशतिसप्तशः। शतयुतं पदं चैव विप्रकान्तमिति स्मृतम् ।। २०॥ तथाऽपि चाष्टाविंशत्ये वेदाशीतिं च मा(शीत्या तथा)धिकम् । सप्तसंख्याशतयुतं विशालाक्षमिति स्मृतम् ॥ २१ ॥ नवविंशद्विधाने तु चत्वारिंशैकमा(कं चा)धिकम् । अष्टशतपदं(द)युक्तं विप्रभक्तीति(क्तिस्तु) कीर्तितम् ॥ २२ ॥ वत्र त्रिंशद्विधाने तु पदं नवशतं तथा। एवं विश्वेशसारं च चैकत्रिंशद्विधानतः ।। २३॥ एकषष्टिसमाधिक्यं पदं नवशतयुतम् । एवमीश्वरकान्तं स्यावात्रिंशद्विधानके ॥२४॥ चतुर्विंशतिसंयुक्तं सहस्रपदसम्मितम् । एवं तु चन्द्रकान्तं स्यादेवमुक्तं पुरातनैः ॥२५॥ चतुःसूत्रंतु(श्रेण) संयुक्तं सकलमेकपदं भवेत् (स्यात्) । उत्पूर्वसूत्रमादित्यं दक्षसूत्रं यमाख्यकम् ।। २६ ।।