________________
पदविन्यासलक्षणम्
पदविन्यासलक्षणम् प्रधुना पदविन्यासलक्षणं वक्ष्यते क्रमात् । प्रथम चैकपदं स्यात्सकलं नाममेव(एव) च ॥ १ ॥ द्वितीयं चतुष्पदं चैव नाम पैशाच(पेचक)मेव च । तृतीयं नवपदं चैव नाम पीठमिति स्मृतम् ।। २॥ चतुर्थ षोडशपदं महापीठमिति स्मृतम् । पञ्चमं पञ्चपञ्चांशमुपपीठमिति स्मृतम् ॥ ३॥ षष्ठम(ष्ठं च) षष्ठषष्ठांशं चोप्रपीठं च कथ्यते । सप्तमं सप्तसप्ताशं स्थण्डिलं परिकीर्तितम् ॥४॥ प्रष्टमं तु चतुःषष्टिपदं चण्डितमीरितम् । कथित उक्त)मेकाशीतिपदं नवमं परमशाधि(यि)कम् ॥ ५॥ दशमं शतपदं स्यान्नाममा(म चा )सनमीरितम् । एकादशं तथा प्रोक्तं चैकविंशच्छतं पदम् ॥६॥ स्थानीय नाममे(म चै)व तु चाथ द्वादशकं तथा । वेदाधिक्यं [स]चत्वारिंशदेव(हेश्य) शताधिकं पदम् ॥७॥ त्रयोदशं तथा प्रोक्तं नवषष्टयधिकं शतम् । पदमेवं विधि ज्ञात्वा नाम चोभयचण्डितम् ॥८॥ चतुर्दशं तथा प्रोक्तं षण्णवत्यधिकं शतम् । नाम तन्द्रमेवं तु अ(चा)थ पञ्चदशं तथा ॥६॥ पञ्चविंशपदाधिक्यं शतद्वयपदान्वितम् । नाम(म) महासनं प्रोक्तमथ षोडशकं तथा ॥१०॥ सप्ताष्टाधिकं द्विशतं पद्मगर्भ पदं भवेत् । वया वै सप्तदशकं नवाशीतिशतद्वयम् ॥११॥ त्रियुतं पदमेवोक्तं तथाष्टादशमं( क) तथा । चतुर्विशत्सत्रिशतं चैव कर्णाष्टकं भवेत् ॥ १२ ॥