________________
शङ्कस्थापनलक्षणम् मध्ये च पङ्किदिवसे द्वन(व्य)ङ्गलं च विसर्जयेत् । अन्ते दशदिने चापि वर्जये सहकाङ्गुलम् ॥ ३८ ॥ अपच्छायं(या) तत्र नास्ति यदुक्तं तदिहोच्यते। प्रागुक्तरविराश्यां तु कन्यायां वृषभस्थितम् ॥ ३६॥ अपरे विंशतिदिने तत्तदृतं भवेद्यदि । उक्ताङ्गुलं तत्र नास्ति सूत्रं ज्ञात्वा प्रसारयेत् ॥४॥ [राश्यां(ऋत)युतं रवेर्मासं प्रो(प्रे)च्यापि च परित्यजेत् । ऊहापोहाप्यरक्तादि दशा(द्वया)ङ्गलं न्यत्र( स्तं) सूरिभिः ॥ ४१ ॥ तदशात्ककुभं प्राय(पं) तत्र सूत्र प्रकारयेत् । शुद्धप्राची भवेत्सम्यगैशान्या प्राच्यथोच्यते ॥ ४२ ॥ प्राच्याङ्गुलकृताद्विन्दोरुत्तरे चाङ्गुलं न्यसेत् । प्रतीचीमात्रतद्विन्दोरीशप्राची(ची) प्रसूत्रयेत् ॥४३॥ मुक्तिकामस्य करणे शुद्धप्राची प्रयोजयेत् । ऐशान्यप्राची सर्वस्य भोगकामस्य संमताम्(ता)॥४४॥ मामेये प्राचीसंयुक्तं सर्वदेोषकरं भवेत् । प्रानेयप्राचिकं वास्तु तस्मात्सर्व विसर्जयेत् ॥ ४५ ॥ एवं कृते त्वलं वास्ता(स्तु) सुगाढं सुसमृद्धये । दण्डमानसमं सूत्रदीर्घमानं प्रकल्पयेत् ॥ ४६॥ पादौ तन्तुं त्रिधा कृत्वा सूत्रपाहीति योजयेत् । वा(द्वि)तावर्त तु सूत्रं स्यात्तृतीयावर्तदक्षिणम् ॥४७॥ कार्पासं(स)सूत्रसंयुक्तं [वा] पट्टसूत्रमथापि वा। सूत्राला(च लभ्यते वास्ता प्रमाणं होति निश्चितम् ॥ ४८ ॥ मध्यादिन्द्राच त(तात्त)दिक्षु न्यसेन्द्रादि(सेदिन्द्र)शिखान्तकम् । इन्द्रादीशानपर्यन्तं चान्तकात्पावकान्तम् ॥ ४ ॥ वस्थाद्वायुपर्यन्तं सौम्यादेर्वायु(यो)न्तिकम् । सौम्यादीशानपर्यन्तं सूत्रमेवं परिव्रजे(ब्राजये)त् ॥५०॥
3