________________
मानसारे मध्ये दशदिने चेकं चान्त्ये पतया[मडलं विना । वृषभे प्रथमदशके दिवसे त्वङ्गलं नहि ॥२६॥ मध्ये चैकाङ्गलं प्रोक्तं पतयन्ते द्वपङ्गुलं त्यजेत् । मिथुने प्रथमदशके दिवसे त्व(द्वर)ङ्गुलं त्यजेत् ॥ २७ ॥ मध्ये दशदिने वह्नि(हि) चान्त्यपति(डौ) चतुस्त्यजेत् । कुलीरे प्रथमदशके वेदमात्रं विसर्जयेत् ॥ २८ ॥ मध्ये दशदिने चापि त्र्यङ्गुलं तत्परित्यजेत् । द्वरङ्गलं चान्त्यदिवसे दशके समुदाहृतम् ॥ २६ ॥ सिंहस्य चादिदशके द्वरङ्गलं च परित्यजेत् । मध्ये दशदिने चैकवा(म)न्त्यपकौ विनाङ्गुलम् ॥ ३० ॥ युवत्यामादिदशके दिवसे नाङ्गुलं भवेत् । मध्ये चैकाङ्गुलं त्यक्ता(क्त) चान्त्यपको द्वया(द्वन)ङ्गुलम् ॥ ३१ ॥ तुलारम्भे दशदिने द्वपङ्गुलं च निषेधयेत् । विसृज्य(ज्यं) द्वर(व्य)ङ्गलं सध्ये चान्त्ये वेदमिति स्मृतम् ॥ ३२ ॥ वृश्चिके प्रथमे पङ्किर(लौ) दिवसे चतुरङ्गुलम् । मध्ये दशदिने बाणं चान्यपतौ षडङ्गलम् ॥ ३३॥ धनूराशी दशदिने प्रथमे तु षडङ्गुलम् । मध्ये दशदिने सप्तद्वन(सप्ता)ङ्गुलं च विवर्जयेत् ॥ ३४ ॥ अन्त्यपतिदिने त्याज्यं वसुमात्रमिति स्मृतम् । मकरादौ दशदिने त्यजेदष्टाङ्गुल बुधः ॥ ३५ ।। मध्ये सप्ताङ्गलं त्यक्ता (त्यक्त) चान्त्ये त्यक्ता(क्त) षडङ्गुलम् । कुम्भे चादौ दशदिने विसृजेत्तु षडङ्गुलम् ॥ ३६॥ मध्ये पञ्चाङ्गुलं त्यक्ता(क्त) चान्त्ये च चतुरङ्गुलम् । मीनराशौ च दशके दिवसे चतुरङ्गुलम् ॥ ३७॥