________________
शङ्खस्थापनलक्षणम् पूर्वा शर्तश्छायां पश्चिमे मण्डलान्तकम् । तत्रैव बिन्दुसंज्ञाश्च कुर्यात्तु शिल्पि( ल्प )वित्तमः ॥ १३ ॥ [भ]पराहे शङ्कतश्छायां पूर्वदिमण्डलान्तके । पूर्ववद्विन्दु(न्दु) संस्थाप्य पश्चाच्छङ्कं त्यजेत्ततः ॥ १४॥ शायामषडाधिक्यनवत्यशविभाजिते । तस्यांशेन अपच्छायां त्यक्ता प्राची नयेत्ततः ॥ १५ ॥ कन्यावृषभमासौ च प्र(सयोर)पच्छाया न विद्यते । मेषे च मिथुने चैव तुलासिंहचतुष्टये ।। १६ ॥ एवं हि द्वगङ्गुल न्यस्तं वृश्चिकाषाढमीनयो:(नेषु) । चतुरङ्गुलं प्रकर्तव्यं धनुःकुम्भी (म्भयोः) पाङ्गुलम् ।। १७ ॥ मकरेऽष्टाङ्गुलं प्रोक्त(क्ता)मव(प)च्छाया(या) विशेषतः । छायायां बिन्दुवामे [तु] दक्षिणे चोक्ताङ्गलं न्यसेत् ॥ १८ ॥ प्रडलान्ते तु यच्छुद्धं प्राचीसूत्रं प्रयोजयेत् । मकरादि(दो) च षण्मासे छाया दक्षिणतो भवेत् ॥ १६ ॥ कुलीरादि(दा) च षण्मासे छाया चोत्तरता दिशि । छायाया प्रभिमुखे प्रत्यग्वामे वामं न्यसेद्यते (न्यसेदतः) ॥२०॥ पूर्वे च दक्षिणे नीत्वा प्रत्यग्वामागुतान्न्यसेत् । अपच्छायां त्यजेच्छिल्पी प्राक प्रत्यक सूत्र(त्रं ) विन्यसेत् ॥ २१ ॥ तत्सूत्रात्पूर्वदिग्देशे नीत्वा चोत्तरता दिशि । एवं मीनविवृद्धिः स्यात्पुरतोऽङ्गलमेव च ।। २२ ॥ सत्सूत्रादक्षिणे सौम्य(म्य) तस्य द्वारं प्रकल्पयेत् । मत्स्यपुच्छानने न्यस्त सूत्रं स्यादक्षिणोत्तरम् ॥ २३ ॥ मण्डलावधिदेशे तु नीत्वा सूत्रा(त्रम)कुलं न्यसेत् । मासानां पडिपलेश्च दिवसानां त्रिधा त्रिधा ॥ २४ ॥ विद्यमानाव[प]च्छाया[य]पच्छायां(या) चोच्यते । मेषे च प्रथमे पड़े(स) द्वमङ्गलं च विसर्जयेत् ॥ २५ ॥