________________
मानसारे
[अध्यायः
शङ्कस्थापनलक्षणम् प्रथातः संप्रवच्यामि शङ्कस्थापनलक्षणम् । प्रादित्योदयकाले तु शङ्कुस्थापनमारभेत् ॥ उत्तरायणमासे तु दक्षिणायनमे(न ए)व वा । शुक्लपक्षे यथा(ऽथवा) कृष्णपक्षे शुभतमे दिने ॥२॥ पौर्णमा(पूर्णिमा) चाप्यमावास्यां वर्जयेत्सुमुहूर्तके। प्रभाते स्थापयेच्छङ्कुमपराह्वात्(हे) ततः स्थितम् ॥ ३ ॥ स्थापनात्पूर्वदिवसे स्थलशुद्धिं प्रकारयेत् । प्राप्तभूमध्यदेशे तु चतुरनं समन्ततः ॥ ४ ॥ चतुर्हस्तप्रमाणेन विश्वतः सलिलस्थलम् । कृतमाल(लं) शमीशाखा चन्दनं रक्तचन्दनम् ॥ ५॥ खदिरं तिन्तु(न्दु )कं चैव शङ्कदारु प्रकीर्तिता( तम् )। श्वेतशीरिणि(णी)वृक्ष( सो) वा शुभदन्तमथापि[वा] ॥ ६ ॥ शङ्कायामं तु हस्तं स्यान्मूलतारं रसाङ्गुलम् । अप्रतारं द्विमानं स्यान्मूलाग्रान्तं क्षयं क्रमात् ।। ७ ॥ सुवृत्तं निर्बणं चैव छत्राकार तदग्रकम् । एवं तु चोत्तमं शङ्क मध्यमं तत्प्रवक्ष्यते ॥ ८॥ अष्टादशाडुलायाम मूलवारं शराङ्गुलम् । प्रप्रमेकाङ्गुलं वारं शेषं प्रागुक्तवन्नयेत् ।। ६ ॥ कन्यसं द्वादशाङ्गुल्यं शङ्कायामं विशेषतः । चतुरङ्गुलविस्तारं मूलमनं त्रयाङ्गुलम् ।। १० ।। अथवायामसंमूले नाहमने नवाङ्गुलम् ।। शेषं पूर्ववदुद्दिष्टं खोकरीकृतभूतले ॥ ११ ॥ तन्मध्ये बिन्दुतत्त्वज्ञो शङ्कायामद्वयेन च । भ्रामयेन्मण्डलं कुर्यात्तन्मध्ये शङ्कुमर्पयेत् ॥ १२ ॥