________________
کے
ง
भूमिसंग्रहः
आदित्यचन्द्रौ ध्यायेत्तद्बलीवर्दद्वयं बुधः ।
वाराहं लाङ्गलं ध्यायेच्छिल्पिनं तु पितामहम् ॥ ४१ ॥ ब्राह्मणैश्च यथाशक्ति वाचयेत्स्वस्तिवाचनम् । सर्वमङ्गलघोषैश्च स्थपतिः कर्षयेत्तदा ॥ ४२ ॥ त्रिधा प्रदक्षिणं कुर्यात्सर्व शूद्रैश्च कर्षयेत् । शूद्रोऽपि कृषिकाले तु शुद्धो भूत्वा समाहितः ॥ ४३ ॥ अधिकर्षणशेषान्तात्स्थपतिभ्यां (भ्यो ) निवेदयेत् । सर्वेषामपि वास्तूनामाधारं ( रा ) भूतलं स्मृतम् ॥ ४४ ॥ तस्मात्प्रागुक्तवत्कुर्याद्भूमिसंग्रहणं बुधः ।
अज्ञानान्तादि संग्राह्य(i) सर्वसम्पद्विनाशनम् ॥ ४५ ॥ तस्मात्कुर्याद्यथा वास्तुरे ( ९ ) वं लचणपूर्वकम् ॥ ४६ ॥
इति मानसारे वास्तुशास्त्र भूमिसंग्रह (भूपरीक्षाविधानं) नाम पञ्चमोऽध्यायः ।
१३
84
88