________________
मानसारे धूपदीपं ददे(या)प्राज्ञो मध्यकुम्भस्य मध्यमे । प्राराध्य गन्धपुष्पैश्च भुवनादिपतिं जपेत् ॥ २६ ॥ घृतगुल(ड)शस्यदधि क्षीरान्नं वा निवेदयेत् । धूपदीपं ददे(या)त्ताम्बुलादि निवेदयेत् ॥ २७ ॥ दर्शयेडेनुमुद्रादीन गीतादोन(दि)नृत्तघोषणैः । तदने स्थपतिः प्राज्ञो होम कुर्यात्ततः क्रमात् ॥ २८ ॥ समिदाज्यचरुं(क)लाजप्रत्येकमष्टोत्तरशताहुतिः। शुद्धतोयेन सङ्खाया(खया) पञ्चविंशतिरेव वा ॥ २६ ॥ हल्लेखं बीजमुचार्य स्वाहान्तं प्रणवान्तकम् । बिम्बं गायत्रि(त्रो)मन्त्रेण पूर्णाहुतिं च कारयेत् ॥ ३०॥ प्रतिकार्यावसाने तु विधिवद् बिम्बमाश्रयेत् । पुण्याहं वाचयित्वा तु ब्राह्मणैः सह घोषणैः ॥ ३१ ॥ रमशुद्धि ततः कुर्याद् गन्धपुष्पैरिवार्चयेत् । स्थपतिः प्रोक्षयेद् बिम्ब सर्वमङ्गलघोषणैः ॥ ३२ ॥ धूपदीपं दधे(या)त् पश्चाद् बिम्ब (म्बाय) गायत्रीमन्त्रतः । माराध्य गन्धपुष्पैश्च धेनुमुद्रां प्रदर्शयेत् ॥ ३३ ॥ नववशेष गोप्याङ्गं बिम्बस्य नेत्रमालिखेत् । सर्वान्दक्षिणशास्त्रेण(हस्तेन) स्पर्शयेत्त्वेकचित्तवत् ॥ ३४ ॥ अतिरेखा(खा) समालिख्य सव्येऽति कृष्णमण्डलम् । ज्योतिर्मण्लकं ध्यात्वा सौरमन्त्रं समुश्चरेत् ॥ ३५ ॥ पाश्चात्तु वामनेत्रे तु शशिमन्त्रं समुच्चरेत् । ललाटे लोचनं ले(नमालि)ल्य अ(ख्या)मिबीजं समुञ्चरेत् ॥ ३६॥ पश्चात्तु वर्णलिप्ये(लेपे)न पयसाज्येन लेपयेत् । ततः प्रच्छादनं कुर्याद् वत्सा(स्त्रा)ङ्गकनकैः सह ॥ ३७॥ पायसं धनधान्यादिराशिं दर्शयेत्पुनः । स्थपतिर्वरवेषाढ्यः प्राप्तपञ्चाङ्गभूषणः ॥ ३८ ॥ श्वेतानुलेपन लिप्य नववस्त्रोत्तरीयवान् । . वर्षयज्ञोपवीतश्च शि(सितमुष्पशिवा(वः) शुचिः ॥ ३६॥
72