________________
28
[अध्यायः ७०]
नयनोन्मीलनलक्षणम् तदने चामिकुण्डं स्याद् गोमयालेपनं भवेत् । विधानध्वजसंयुक्तं नानावस्त्रेण संयुतम् ॥ १२ ॥ पादानां समलङ्कत्य कदली [तत्फलैर्युतम् (तं च)। परितश्चोर्ध्वदेशे तु रम्भामाल्यैरलङ्कृतम् ॥ १३ ॥ पुष्पमाल्यैरलङ्कृत्य स्नैःसर्वैरलङ्कृतम् । पश्चात्तु शिल्पिभिः(नः) प्राज्ञाः कुर्यात(युर्) नयनमोक्षणम् ॥ १४॥ वेदिकापश्चिमे वाथ दक्षिणे वाथ नैर्ऋते । कल्पयेत्स्वण्डिलं वाथ दाल(नव)पीठमथापि वा ॥ १५ ॥ तदूर्ध्वं स्थापयेद् बिम्ब सकूर्चाद्यैरसङ्कतम् । तत्पूर्वे शुद्धमाल्येन स्थण्डिलं मण्डलं न्यसेत् ॥ १६ ॥ तवें स्थापयेडेमपात्रे नैर्मृत्य(त्ये) पूरितम् । चौमेणाच्छादनं कुर्यादन्तः कू●रलहूतम् ॥१७॥ वेदिकोपरि शाल्येन कुर्यान्मण्डलं बुधः । पञ्चविंशत्पदं वाथ कल्पयेत्पोठमेव वा ॥१८॥ दभैरास्तोर्य पश्चात्तु शुद्धतण्डुलरेखया। नानापुष्पैश्च लाजैश्च प्रोचयेच्छोभनार्थकम् ॥ १६ ॥ नवकुम्भे(म्भैर) नवैर्वापि पञ्चविंशति[भिरेव वा । विधिवत्क्षालयेत्सर्वसूत्रैरावेष्टनं भवेत् ॥२०॥ शुद्धतोयन संपूर्य वेदिकोपरि विन्यसेत् । मध्ये प्रधानकुम्भः स्यादन्ये क्रमात्समन्ततः ॥ २१ ॥ सर्ववस्त्रैश्च संवेष्य सकूर्चाचप्रपल्लवान (वैः)। सविधानफलं (लैश) चैव पुष्पमाल्यैरखतम् ॥ २२ ॥ उपवेयुपरि स्थाप्य चोक्तवचाष्टमङ्गलम् । पश्चात्तु शिल्पिभिः प्राज्ञैः पादप्रक्षालनं कुरु(क्रियेत)॥ २३॥ विध्युक्ताचमनं कुर्यात्सकलीकरणं क्रमात् । पुण्याहं वाचयित्वा तु प्रोतयेत्प्रतिमादिकम् ॥ २४ ॥ माझादीनां च देवानां तत्तत्स्वनाममन्त्रकैः।। प्रणवादिनमोऽन्तेन क्रमादारापयेत्पुनः ॥ २५ ॥