________________
४१२
मानसारे
पादतुना (ङ्गमधिकं हीनं गोत्रनाशं कुलक्षयम् । प्रस्तरे तुङ्गहीनं चेद् विनश्येत्तत्क्षणादेव ॥ १२ ॥ तदेवाधिकं मानं चेत् प्रमाणं कर्तृनाशनम् । वेदिकायां विद्दीनं चेत् कुर्तुर्दृष्टिर्दीनं व्रजेत् ॥ १३ ॥
तत्कर्णेऽधिकहीनं चेद् भेोजनेन विनाशनम् ।
शिखराङ्गा (ङ्गम) धिकं हीनं कर्तुः स्यात्स्फोटनं शिरः ( रसः) ॥ १४ ॥ स्तूपिकमधिकं हीनं चेज्जनानां तु द (दा) रिद्रकम् । नासिकाङ्गमधिकं हीनं चेत् कर्तृगं (गो) भविष्यति ॥ १५ ॥ पञ्जराथ हीनं चेदधिकं श्रीविनाशनम् । द्वारे च भद्रदेशे च मानहीनाधिकं तु चेत् ॥ १६ ॥ महारोगं (गो) भवेत्कर्तु राजाराष्ट्रं विनश्यति । मृणाल्यधिकहीनं चेत् कुक्षिरोगो भवेद् ध्रुवम् ॥ १७ ॥ जालकाविकहीनं स्यात् श्री ( को ) हीनमर्थ नाशनम् । शुद्धगर्भगृहमाधिक्यं हीनं चेद्ं ग्रामनाशनम् ॥ १८ ॥ हर्म्यजन्म समारभ्य सालजन्म (जाल) प्रदेशकम् । उत्तमं मानयेन्मानं जालस्योन्नतनिम्नकम् ॥ १६ ॥ समन्ततो निम्नत्वमुन्नतत्वं प्रकारयेत् । कृतमज्ञानता वस्तु सर्वसंपद्विनाशनम् ॥ २० ॥ प्राकारान्तप्रदेशं स्यात्परिवारालयादिकम् ।
तालजन्मसमं चैव धानो (म) जन्मसमं तु वा ॥ २१ ॥ अथवा विपरीतं चेजनानां संपदं हरेत् । सोपानमधिकं हीनं कर्ता पर्ुर्भवेद् ध्रुवम् ॥ २२ ॥ सालाङ्गमधिकं हीनं चेचौरैरर्थ विनश्यति (ते) । गोपुराङ्गमधिकं हीनं सर्वनाशं न संशयः ॥ २३ ॥ मण्डपादि सभाशाला तत्तन्न्यूनाधिकं तु चेत् । सर्वसंपद्विनाशाय राजा राष्ट्रं विनश्यति ॥ २४ ॥ अन्तर (रे तु) त्वन्द्रिं (न्दे) वा हीनाधिक्यं प्रमायकम् । फर्तयां परिवारादि पुत्रपौत्रविनाशनम् ॥ २५ ॥
[अध्यायः
24
28
32
36
40
44
48