________________
अङ्गदूषणविधानस् प्रालयाद्यङ्गसर्वेषु होनाधिक्यं भवेद्यदि । राजराष्ट्रादिकर्तणां दोषप्राप्तिरिहोच्यते ॥१॥ विस्तारे च समुत्सेधे (चो)पाने च मसूरके । पादे च प्रस्तरे चैव वेदिकायां गखे तथा ॥२॥ शिखरे स्तूपिकायाश्(यां) च नासिकापञ्जरादिभिःषु)। द्वारे च भद्रदेशे च मृणालादिषु देशके ॥३॥ गर्भगेहे तले सर्वे(व)सोपानादिषु सालके । गोपुरैः(२) मण्डपाद्यैः च(दिषु) चान्तराले त्वलिन्द्र(न्द)के ॥४॥ प्रच्छादने प्रपाङ्गे च उ(तु चो)पप्रान्ते तथोत्तरे। भित्तिदेशे च भागे च सर्वाङ्गे च न दोषयुक् ॥५॥ तस्मात्तु दोषसंप्राप्तिः शिल्पिदृष्टानि(ष्टिभिर) वारयेत् । विस्तारे न्यून तत्मात्तु कर्तृदारिद्रयमावहेत् ॥६॥ सद्योधिकमानं चेद् दारानाशो भवेद् ध्रुवम् । पादितुङ्गविहीनं चेत्कर्तृव्याधिमतो विदुः ॥७॥ सदेवाधिकमानं घेच्छवृद्धिर्न संशयः । अन्तर्जन्म बहिर्जन्म निम्नमु(म्रो)नतया स्थितम् ॥८॥ निर्वशमेव तत्सर्व कर्तृवंश भवेद् ध्रुवम् । वजन्मदेशमार्गे च निनोनतमथापि ते(वा) ॥६॥ निर्गमोद्गमने वापि पुत्रनाशमवाप्नुयात् । प्रविष्ठानोत्तुङ्गहीनं स्यात्स्थाननाशं धनक्षयम् ॥ १०॥ वप्रादिवर्गसर्वेषु तन्मार्गे निम्नमुन्नतम् । कर्तयां जयरोगः स्यात्तुङ्गेन करणेन च ॥ ११ ॥