________________
[अध्याय: ८६]
४१०
मानसारे प्रामं प्रदक्षिणं कुर्यात्सर्वमङ्गलघोषणैः। . शिल्पियाला प्रविश्य(शन्ति) कारयेदुक्तवत्क्रमात् ॥२५॥ तस्योपाङ्गविहीनं चेत्पुनः सन्तानकं भवेत् । शिरो वा मध्यकाये(य) वा हीन चेद् विसृजेत्पुनः ॥२६॥ कर्तृशिल्प्यचलं चित्तं कारयेत्पूर्ववद् भवेत् । चलं चित्तं न कुर्याच्चेत्स्थाननाशं धनक्षयम् ॥ २७॥ अनेकजन्मकृतं पुण्यं क्षिप्रमेवं विनश्यति । तस्मात्सर्वप्रयत्नेन पुतश्(पूर्व) च कारयंत्सुधीः ॥ २८॥
52
इति मानसारे वास्तुशास्त्रे मधूच्छिष्टविधानं नाम अष्टषष्टितमाध्यायः॥