________________
६७]
प्रलम्बलचणम्
पूर्वे च मध्यसूत्रं तु पृष्ठसूत्रं प्रलम्बयेत् । तदेव मौल्यप्रमध्ये मौलिमूलस्य मध्यमे ॥ ४० ॥ तत्कृत्वाथ ककुन्मध्ये वंशमध्ये तु लम्बयेत् । जघनस्य द्वयोर्मध्ये ऊ (चो ) रुद्वयोश्च मध्यमे ॥ ४१ ॥ पृष्ठजानुद्वयोर्मध्ये पाणियो (य) र्मध्ये [च] लम्बयेत् । एवं तु वरसूत्रं स्यात्पार्श्वसूत्रमिहोच्यते ॥ ४२ ॥ कर्णयेोः सुषिरमध्ये पार्श्वकायस्य मध्यमे । गुल्फस्य मध्यमे चैव पार्श्वसूत्रं प्रलम्बयेत् ॥ ४३ ॥ पिप्पली बाह्यदेशे तु स्तनचूचुकमध्यमे । ऊरुजानु (न्वार्) यथादेशे तर्जन्यङ्गुलमध्यमे ॥ ४४ ॥ कक्ष सूत्रात्कटिपार्श्वेऽपरे सा (चा) ङ्गुलाष्टकम् । शक्तीनां कटिदेशे तु लम्बयेत्तु कनिष्ठके ॥ ४५ ॥ बाह्य मध्यमे वापि कटी च (टि) पुरपार्श्वके [च] । एवं तु कार्यसूत्रं स्याल्लम्बयेच्छिल्पिवित्तमः ॥ ४६ ॥ परहस्तपार्श्वयाः सूत्रं मानयेज़्ज़ानुपार्श्वकम् । सर्वाङ्गं च ऋजुं कुर्यात्पूर्वापर (वयोर् ) योजयेत् ॥ ४७ ॥ ऋज्वाङ्गकभावं सामान्यमिति विद्यते ।
सर्वेषां (र्वासा) देवदेवीनां भङ्गमानमिहोच्यते ॥ ४८ ॥ प्रभङ्गं समभङ्गं च (तु चा) तिभङ्गं त्रिधा भवेत् । त्रिचतुष्पथ्वमात्रं स्यात्तुङ्गमानमिति क्रमात् ॥ ४६ ॥ उष्णीषमध्यमे चैव ललाटं चै (टस्यै) व मध्यमे । नासिकाप्रस्य मध्ये तु हिका (या) यथेोक्तपार्श्वके ॥ ५० ॥ यथेोक्तचूचुकस्यान्तं नाभिपार्श्वे यथेोक्तवत् ।
यथेो (तो) रुगुल्फस्य [च] पार्श्वसूत्रं प्रलम्बयेत् ॥ ५१ ॥ एवमाभङ्गसूत्रं स्यात् समभङ्ग मिहोच्यते ।
उषात् (षस्य) तु यथापार्श्वे ललाटस्य तु पार्श्वके ॥ ५२ ॥
यत्तत्पुटपार्श्वे तु स्तनचूचुकमध्यमे ।
नाभिश्चोरस्तथा जङ्घा यथेोकं गुल्फपार्श्वके ॥ ५३ ॥
४०५
80
84
88
92
96
100
104