________________
४०४
मानसारे
तत्सूत्राजवयोर्मध्यं अन्तरं तु षडङ्गुलम् । सूत्रान्तं नलकान्तं स्यात्सार्धसप्ताङ्गलं भवेत् ॥ २६ ॥ समाधि स्थानकं कुर्यात्कायमृज्वायतं भवेत् । पादाङ्गष्ठद्वयोर्मध्ये नन्तरं चाष्टमात्रकम् ॥ २७ ॥ वलमध्यद्वयोर्मध्ये द्वन्तरं तु षडङ्गुलम् । तत्पा}ि[व]द्वयोर्मध्ये [च] द्वन्तरं वेदमात्रकम् ॥ २८ ॥ नलकान्त(न्त)द्मयोर्मध्ये यन्तरं तु रसाजुलम् । जवामध्य(ध्य)द्वयोर्मध्ये द्वन्तरं तु शराङ्गलम् ॥ २६ ।। जानुमध्यद्वयोर्मध्ये नन्तरं वेदमात्रकम् । ऊरुमध्य(ध्य)झयोर्मध्ये मङ्गलं चान्तरं भवेत् ॥ ३०॥ अरुमूलद्वयोर्मध्ये शिवमात्रान्तरं भवेत् । हस्तौ च लम्बनं कुर्यात्तदन्तरमिहोच्यते ॥ ३१ ॥ श्रोण्या[1] कूपरं(र)पार्श्व(व) च द्वन्तरं तु षडङ्गलम् । प्रकोष्ठात्कट्यन्तरं अन्तरं च व्यङ्गुलम् ॥ ३२॥ प्रथवा याङ्गुलं वापि मणिबन्ध(न्ध) दशाङ्गुलम् । मध्याकुलं च पार्श्व च झन्तरं दशमात्रकम् ॥ ३३ ॥ एवं तु देवदेवीनां स्थानके चासनेऽपि वा। ऊर्ध्वकायसम कुर्यात्पद्मासनविशालकम् ॥ ३४ ॥ जान्व(नू )ोत्केशपर्यन्तं तत्समं त्रिभुजाविति । मानयेज्जानुबाह्ये तु बाहुबाह्यं तु तत्समम् ॥ ३५ ॥ बाहुजानुद्वयं चैव सव्यापसव्यं मानयत् । मेढान्तं गुल्फस्याचान्तं मन्तरं तु षडङ्गुलम् ।। ३६ ॥ प्रोणिकूपरपावें तु चान्तरं तु षडङ्गुलम् । प्रकोष्ठाप्रवलं चैव पञ्चांसी [उपरि विन्यस्येत् ॥ ३७॥ प्रर्धान्तस्यासनं चेत्तु ए(चैक)पादं प्रलम्बयेत् । तज्जानुपावके तस्य (द्वि)व्यङ्गलोनमेव च ॥ ३८ ॥ सत्सूत्रालम्बपादादा [नमन्तरं द्वादशाङ्गुलम् । सर्वेषा(वासा) देवदेवीनामेवं प्रोक्तं तदासनम् ॥ ३६ ।।