________________
६६]
मध्यमदशताल विधानम्
कूर्परं सार्धपञ्चांशं विस्तारं परिकीर्तितम् ।
प्रकोष्ठमूल विशालं तु पञ्चाङ्गुलमिति स्मृतम् ॥ २६ ॥ मध्यं सार्धयुगाङ्गुल्यं तारं चाग्रं युगाङ्गुलम् । मणिबन्धविशालं स्याद् वह्यङ्गुलमिति स्मृतम् ॥ २७ ॥ तलतारं शराङ्गुल्यं कन्याङ्गुलाङ्गुष्ठ विस्तृतम् । षड्यवं तर्जनीतारं तत्तुल्यमनामिका विस्तृतम् ॥ २८ ॥ सार्धपञ्चयवं तारं कनिष्ठाङ्गुलिमूलकं ।
मध्याङ्गुलविस्तारं च मूल (लं) सप्तयवं भवेत् ॥ २६ ॥ कंशान्तं नेत्रसूत्रान्तं द्वयार्मध्यं ध्रुवः स्थितिः । एकांशं नेत्रविस्तारं नेत्रायामं गुणाङ्गुलम् ॥ ३० ॥ पुटबाह्यासानं स्याद् द्व्यङ्गुलं नासि विस्तृतम् । मध्यतारं शिवाङ्गुल्यं तदर्धं मूल विस्तृतम् ॥ ३१ ॥ पादानद्विमात्रं स्यात्कचय ! (दो) रन्तरं भवेत् । भ्रूमूलं च द्वयोर्मध्ये चैकाङ्गुलमुदीरितम् ॥ ३२ ॥ वायामं नवाङ्गुल्यं भ्रुवतारं द्विमात्रकम् । असा (क्ष्या) यामं त्रिधा चैकं तन्मध्यं कृष्णमण्डलम् ॥ ३३ ॥ चापाकारं वाकारं मत्स्याकारमत्तकं तथा ।
पुटतारोदयं चार्धमात्रं युक्त्या प्रयोजयेत् ॥ ३४ ॥ तिलपुष्पाकृतिर्ना (ना) सि पुढं निष्पावबीजवत् । कुर्यादास्यायतं वेदमात्रं सृक्कान्तमेव च ।। ३५ ।। उत्तरे ष्ठविशाले तु यवपश्वकमेव च ।
अधरोष्ठं षड्यवं स्यादायामं च द्विमात्रकम् ।। ३६ ।। कुक्कुटाण्डसमाकारं मुखं युक्त्या प्रकारयेत् । भ्रूमध्यसमं कर्ण(र्ण) श्रोत्रतुङ्गं युग ुलम् ॥ ३७ ॥ तत्समं नाललम्बं स्याद् घनमर्धाङ्गुलं भवेत् । अश्वत्थपत्रवत्कुर्याद् यानितारं युगानुलम् ॥ ३८ ॥ दीर्घ ( दैर्घ्य) सप्ताङ्गुलं प्रोक्तमूर्ध्वतायतं तत्समम् । शेषं तु चोत्तमपङ्कितालवत्कारयेत् सुधीः ॥ ३६ ॥
इति मानसारे वास्तुशास्त्रे स्त्रोमानमध्यमदशतालविधानं नाम षट षष्टितमेाऽध्यायः ॥
50
४०१
52
56
60
64
68
72
76