________________
मानसारे तस्याधो मुखविस्तारं कर्णान्तं रुद्रमात्रकम् । सप्तामुलं गवतारं मध्यमूलं तदप्रकम् ॥ १२ ॥ पञ्चा(च)दशाङ्गुलं प्रोक्तं कक्षयोरन्तरं स्थलम् । तस्याधो(धः) स्तनदेशे तु तारं पञ्चदशास्त्रम् ।। १३ ॥ प्रत्येकं स्तनविस्तारमर्धाधिकनवाङ्गुलम् । वेदार्धार्धाङ्गुलं तुङ्गमतिमध्याकुलं भवेत् ॥ १४ ॥ विस्तारं घडलं प्रोक्तं स्तनचूचुकमण्डलम् । स्तनान्त हृदयान्तं स्यात्तारं त्रयोदशाङ्गुलम् ।। १५ ।। मध्योदरविशालं स्यादेकादशाकुलं भवेत् । तस्याधो नाभिदेशे तु तारं त्रयोदशाइलम् ।। १६ ।। नाभिदेशादधोदेशे तारं पञ्चा(च)दशाङ्गुलम् । तस्याधी(ध:) श्रोषिविस्तारं विंशत्यङ्गलमेव च ॥ १७ ॥ चतुर्विशालं श्रोण्याद(5)धः कटिविशालकम् ।' त्रयोदशांशं प्रत्येकं चोरुमूलविशालकम् ॥ १८ ॥ ऊरुमध्यविशालं स्याद् द्वादशाङ्गुलमीरितम् । नवाडलं चाप्रविस्तारं सप्तांशं जानुविस्तृतम् ।। १६ ॥ जङ्घामूलं रसाडुल्यं मध्यतारं शराकुलम् । नलकान्तं युगाहुल्यं गुल्फें सार्धयुगाङ्गलम् ॥ २० ॥ तारं स्यात्तलविस्तारं चतुर्मावं प्रशस्यते । प्रप्रसारं शराङ्गुल्यं पार्ष्णितारं युगाङ्गुलम् ॥ २१ ॥ प्रष्ठायाम(म) वेदांश तर्जनी तत्सम भवेत् । मध्यमाखीदीर्घ(दैर्य) स्यात्सार्ध वमङ्गलं भवेत् ॥ २२ ॥ वहनशमनामिकायामं कनिष्ठं द्विमात्रकम् । दीर्घाङ्गुष्ठं च (ष्ठस्य) विस्तारं ग्राहुलेनाशं तर्जनी ॥ २३ ॥ तारं सप्तषट्पञ्चयवमन्याकुलं त्रयम् । मध्याहुल्यकनिष्ठान्तं विस्तारं परिकीर्तितम् ॥ २४ ॥ बाहुमूलविशालं च चाग्निं जवाङ्गुलं भवेत् । मभ्यतारमर्धषण्मात्रममतारं पडङ्गलम् ॥ २५ ॥