________________
३६८
मानसारे
[प्रध्यायः ६५]
वृहती सप्ताशकं कक्षान्तरसमायतम् । बृहती स्तनसीमान्तं सार्धद्विरष्टमात्रकम् ॥२२॥ त्रयोदशांशकं चैव कटिसूत्रं तु विस्तृतम् । ऊरुमूलं तु निर्गमं च तत्समं तु युगाङ्गलम् ।। ८३ ॥ विस्तारं नवांशं स्यात्तत्तपिण्डी सुवृत्तको । स्तनपीठं द्विमात्रं स्याद् विस्तारं तत्सुवृत्तकम् ॥ ८४ ॥ स्तनपत्तद्वयस्यान्तं तत्समं चोदयं तथा । हिका च(काया) हृदयं चै(यस्य)व निमकं च यवं स्मृतम् ॥ ८५ ॥ हिकात(या) स्तनान्तं स्यात् हि(डि)काया कक्षान्तरं तथा । सार्धत्रयोदशांशं स्याद् द्वियवं नाभिनिम्नकम् ।। ।। ८६ ॥ नाभिप्रदक्षिणवृत्तं मूलवत्कारयेद् बुधैः । नाभ्यधः कटिसीमान्तं कुतिदीर्घ(दैर्घ्य) षडङ्गलम् ॥ ८७ ।। नाभ्या[द्] वस्त्रसीमान्तं वेदमात्रं प्रशस्यते । कटितुङ्गा(ङ्गम)धसप्तांशं तस्यान्तं मेढमूलकम् ।। ८८ ॥ मेडपीठस्य विस्तारं चतुर्मात्रं प्रशस्यते । तस्मात्तु लिङ्गदीर्घ (दैर्घ्य) स्याद् द्वादशांशं विधीयते ।। ८६ ॥ मुष्कायामं द्वयार्धाशं तद्विस्ता तथांशकम् । लिङ्गतारं शिवांशं स्यात् शे(च्छ)षं युक्तितो न्यसेत् ॥ १० ॥ सदेवाधिकहीन वा शोभार्थ चैकमात्रकम् । सक्तमानाङ्गकैः सर्वैः व(वैस्त)त्र दोषो न विद्यते ।। ६१ ॥ तदूऽधिकहीनं चेत्सर्वदोषसमुद्भवम् । तस्मात् परिहरेच्छिल्पी प्रतिमानं तु सर्वदा ॥ १२ ॥ ब्रह्माविष्णु[श्च]रुद्रायां मानयन्मानवित्तमः । अन्येषां चैव देवानां मानं कुर्याच्छुभावहम् ॥ ३ ॥ एवं तु चोत्तमं पङ्कितालं प्रोक्तं मुनीश्वरैः ।। ६४ ॥
इति मानसारे वास्तुशास्त्रे प्रतिमानामुत्तमदशतालविधानं नाम पञ्चषरितमारध्यायः ॥