________________
उत्तमदशतालविधानम् श्रोत्रतारं द्विय(द्वया)धींशं शेषमूह्यं विचक्षणः । नेत्रान्तात्कर्णसीमान्तं नन्तरं सप्तमात्रकम् ॥ ४० ॥ मधीशं नास्य(सि)विस्तारमग्रमेकाङ्गलं भवेत् । पुटतारार्धमात्रं स्यात्तद्दीर्घ (दैय) षड्यवं भवेत् ॥ ४१ ॥ सुषिरं चार्धमात्रं स्यात्तारं पञ्चयवं भवेत् । पुष्करोत्सेधमंशं स्याद् विस्तारं तवयं भवेत् ॥ ४२ ॥ एकांशं द्वयमाधिक्यं नासिमध्यं तु विस्तृतम् । तदर्ध मूलविस्तारं तुङ्गमेवं(क) यथाक्रमम् ॥ ४३ ।। गोजिमूलं तदप्रान्तं नासितुङ्गं द्वयालम् । पुष्करं स्यादधोगोजि दीर्ध (दैय) चतुर्यवं भवेत् ॥ ४४ ॥ निम्नं तु यवं चैव विस्तारं त्रियवं तथा । तस्मात्तथोत्तरा पालि यवमेवं(क) विधीयते ॥ ४५ ॥ तस्याधश्चोत्तरोष्ठं च तारं षड्यवं भवेत् ।। पाहत्वा(प्रसृक् त्व)यवं चैव तद्वायाधा(द्वाधारयुक् [स्यादेव] ॥ ४६॥ अधरोष्ठं शिवांशं स्याद् विस्तारं चोन्नतसमम् । प्रस्यायामं चतुर्मात्रमसृत्का(ग)न्तं तु कारयेत् ॥ ४७ ॥ त्रिय(त्रयां)शार्धा(र्धम)धरायामं चार्ध चन्द्रवदाकृति । त्रिवनं(? यवं) चोत्तरा पाली चान्तरैश्चैव संयुतम् ।। ४८॥ द्वयं तत्तद्विस्तारं तत्समं चायतविस्तृतम् । अधरोज़ तु दन्तं च तद् द्वात्रिंशत्तु दन्तकम् ।। ४६ ॥ प्रधरस्याधोदेशे चिबुकाया:(कं च) शिवांशकम् । शेषं यथान्तरमुत्सेधं हन्वन्तं तत्प्रदेशके ॥ ५० ॥ हन्वन्तं विस्तृतं ज्ञात्वा सार्धवह्मा इलं भवेत् । हन्वन्तं कर्णबन्धान्तं द्वया(यार)न्तरं दशाङ्गुलम् ॥ ५१ ।। हन्वन्तरद्वयोर्मध्ये निम्नतुझं शिवायतम् ।। हन्वन्ता(न्तमा)यतवृत्तं स्याद् विस्तारार्धसमं भवेत् ॥ ५२ ॥ द्वियवाधिकमंश च हन्वन्ताद् गाजि तद् भवेत् । इन्वन्तं मध्यमूले तु गलं तडू द्वयमात्रकम् ॥ ५३