________________
६.स
वृषभलक्षणम् पृष्ठोरुमूखविस्तारं दशमात्र प्रशस्यते । मध्यमं चाष्टमात्रं स्यादनं तु चतुरलम् ॥ २६ ॥ शराङ्गुलं चोरुदीर्घ(देय) स्याज्जानुतुझं कलाङ्गुलम् । जङ्गायामं शराङ्गल्यं खुरतुङ्गं द्विमात्रकम् ॥२७॥ सार्धवह्मङ्गलं जानुविस्तारं परिकीर्तितम् । खुरायामं द्विमानं स्यात्पुच्छमूलं द्विमात्रकम् ॥२८॥ प्रपरोरुद्वयोर्मध्ये मुष्कशेषोदरान्वितम् । स्कन्धतारं षडङ्गुल्यं तस्याधो(ध ऊ)रुविशालकम् ।। २६ ॥ मूलं वेदाङ्गुलं प्रोक्तमप्रस्या(यं स्याद)र्धगुणाकुलम् । जानुतारं गुणाकुल्यं तथा(था) जवाविशालकम् ॥ ३०॥ सार्ध(चार्ध) ह्यालयोर्मध्ये तत्समं तत्खुरं भवेत् । शेषं युक्त्या च संयुक्तं श्वेतवर्णे[न] शोभितम् ॥ ३१ ।' श्वेतवर्णनिभं भद्रमग्रं हि कृष्णसधूमवत् ॥ ३२ ॥ वेदपादखुरैरपि कर्णयोः
___श्वेतरक्तसमप्रमनोहरम् । शङ्खशल्यैः क्षणमरक्तं च माखा
कर्णबन्धैः कर्णरुद्राक्षमाला ॥ ३३ ॥ प्रन्यैर्युक्तं किंशुकपुष्पमालैः(लाभिः) .
वंशस्योर्ध्व व्याघ्रचर्माभिरामम् । भृङ्गकोलकललाटपट्टधृक्
पत्रवनिर्धी)बहुरत्नशोभितम् ॥ ३४॥ कर्णयोर्वपुर(पुः)पार्श्वचामरैः
पादनूपुरसभूषणान्वितम् ।। ३५॥
इति मानसारे वास्तुशास्त्रे वृषभलक्षणविधानं नाम द्विषष्टितमोध्यायः॥