________________
२]
मानोपकरणविधानम्
विमानस्य तु सर्वेषां प्राजापत्येन मानयेत् । मानयेद्वास्तु यन्मानं धनुर्मुष्टिकरेण च ॥ २८ ॥ प्रामादीनां न मानानां (च सर्वेषां ) मानयेत्तद्धनुर्ब्रहम् । किष्कुहस्तेन यन्मानं मानयेद्विश्वतस्तु वा ॥ २६ ॥ शमी शाकं च चापं च खदिर: कृ ( रश्च) तमालकः । चोरिणी तिन्त्रिणी (तिन्दिनी) चैव हस्तदारु प्रकीर्तितम् ॥ ३० ॥ दारु संग्रहणं ( यात्) पश्चात्रिमासान्तं जले क्षिपेत् । चालयित्वा परिग्राह्यं तचकेण विदारयेत् ॥ ३१ ॥ तद्दारितं निकरं दारु तत्क्षयेच्चतुरश्रतः । एकहस्तसमं दीर्घं तदेकाङ्गुलविस्तृतम् ॥ ३२ ॥ घनमध्या (र्धा) ङ्गुलं प्रोक्तं हस्त (स्तं) निश्चित्य योजयेत् । नव[च] न भिन्नं च न रन्ध्रं स्निग्धमेव च ॥ ३३ ॥ क्रमुकं वाऽपि वेणुं च (च) दण्डदारु प्रकीर्तितम् । हस्तदण्डाभयेोः प्रोक्तं (क्ता) विष्णुमूर्त्य (र्तिर) धिदेवता ॥ ३४ ॥ नालिकेर (नारिकेल) फलैः शाता (शायैः) दभैर्न्यग्रोधवल्कलैः । कार्पासं (स) किंशुकैः (क) सूत्रैस्तालकेतकवल्कलैः ॥ ३५ ॥ यल्लभेद्वल्कलैर्ब्राह्यं रज्जुं संकल्पवित्तमः । पाश्र्वादेकाङ्गुलं चैव तत्समं रज्जुनाद्दकम् ॥ ३६ ॥ देवभूसुरभूपानां त्रिवर्ति (र्ती) प्रन्थिवर्जितम् (ता) । aur शूद्रजातीनां रज्जुरेकद्विवर्जिता (र्ती च ) ॥ ३७ ॥ वासुकी रज्जुदेवात्मा मानतद्ज्ञैः (तज्ज्ञः) पितामहाः(हः) । तद्धार्य (तद्वृत्वा) हस्तं रज्जुश्च (व) मानदण्डं तथैव च ॥ ३८ ॥ स्मृत्वा मा (म)नसितां (तान्) देवां (वान) मानयेद्बर्धकी (किस्) तथा । एवं मान (ने) कृते वास्तुवस्त्वादि च विवर्धयेत् ॥ ३६ ॥ अनुक्तं कुरुते यस्तु स स्थिता रेणुरं फलम् । तस्मात्परिहरेच्छिल्पी कारयेत्तत्तु विश्वतः ॥ ४० ॥
इति मानसारे वास्तुशास्त्र मानापकरणविधानं नाम द्वितीयोऽध्यायः ।
५
56
60
64
68
72
76
80