________________
३७२
मानसारे चतुर्विशतिमात्रं स्यादाहुदीर्ष(दय) प्रशस्यते । कूप च द्विमात्रं स्यात्प्रकोष्ठा(ठम)ष्टादशाङ्गुलम् ॥ १२ ॥ मध्याइल्यमसीमान्त तलं द्वादशमात्रकम् । रुद्रांशं मुखतारं स्याद् गलतारं युगद्वयम् ॥ १३ ।। तत्समं बाहुमूलं स्याजानुविस्तारं तत्समम् । बाहुपन्तविस्तारं षट्त्रिंशाङ्गलकं तथा ॥ १४ ॥ करुयोरन्तरं सारं विशमात्र प्रशस्यते । मध्योदरतारं च पञ्चा(च)दशाङ्गलं भवेत् ॥ १५ ॥ श्रोणिदेशविशालं स्यात्सप्ता(स)दशाङ्गुलं भवेत् । नवाधिक्यं दशाइल्यं कटिदेशविशालकम् ॥ १६ ॥ करमूलविशालं तु सार्ध(ध)द्वादशाङ्गुलं भवेत् । जङ्घामूलविशालं तु सार्धसप्ताङ्गुलं तथा ॥ १७ ॥ जवामध्यं षडडुल्यं विस्तारं तु युगाङ्गुलम् । नलकागुल्फविस्तारं सत्रिपादाघिमात्रकम् ।। १८ ॥ सार्धवेदाङ्गलं पार्णिविस्तारं परिकीर्तितम् । षड्भागिकं च पञ्चाशं प्रपदं विस्तृतं भवेत् ॥ १६॥ तला(ल)तारं शराङ्गल्यं वेदांशमष्ठदीर्घकम् । द्विमानं तत्रविस्तारं तारार्ध नखविस्तृतम् ॥ २० ॥ तर्जन्या(न्य)इष्टतत्तुल्यं दीर्घ(दर्य) विस्तारमंशकम् । यहुलं सार्धपक्षांशं मङ्गलं च क्रमेण वै ॥ २१ ॥ मध्यमादि कनिष्टान्तं दीर्घ(दैय)मेवं प्रशस्यते । विस्तार सप्तषट्पञ्चयवमानमुदीरितम् ॥ २२॥ तदर्ध च तदर्ध च नखविस्तारमुच्यते । बाहुमध्यविशालं तु सप्तांशं कूपरं तथा ॥ २३ ॥ वेदाइल प्रकोष्ठं च मणिबन्धं त्रिय(त्रया)ङ्गलम् । पर्डशं तलमूलं चामं तारं युगाङ्गुलम् ॥ २४ ॥ तखदीर्घ (दैय) षडङ्गुल्यं शेषांशं मध्यमाङ्गुलम् । सार्धपचागुलं दीर्घ तर्जन्यनामिकाद्वयम् ॥ २५ ॥