________________
॥
४
॥
यक्षविद्याधरादिलक्षण यक्षविद्याधरादीनां लक्षणं वक्ष्यतेऽधुना। द्विभुजं च द्विनेत्रं च करण्डमकुटान्वितम् ॥१॥ परणाम्बरसंयुक्त राक्षसाकारवद् भवेत् । श्यामवर्ण च पीतं च यक्षाणां वर्णमेव च ॥ २ ॥ श्यामरक्तं च पीतं च वर्ण विद्याध (रस्य) तथा । .. यक्षविद्याधरादीनां नवतालेन कारयेत् ॥ ३ ॥ देवस्यानुचरैः(रा) यक्षा विद्याधराश्च पा(भा)रगाः । गान(नादि)योग्या[दि] गन्धर्वा देवाइल्यास (वगुल्मान)नार्थकम् निप्रहा राक्षसा प्रोक्ताः चै()व यक्षे तु भेदकम् । यश्च चामराद्यैश्च सुराणां चिह्नधारिणः ॥ ५ ॥ स्थानकं चासनं चैव यक्षविद्याधरादिभिः(दीनाम्)। दक्षिणा(णं) स्वस्तिकं पादं वामपादं तु कुञ्चितम् ॥ ६ ॥ चामरावृतं हस्तं तं चो:(ा)श्रितमेव वा । एवं तु यक्षरूपं स्याद् विद्याधरा(रमा)सनान्वितम् ॥७॥ पुरतः पृष्ठपादौ च लाङ्गलाकारमे(रौ ए)व च । जान्वाश्रिता हस्ता गोपुरोद्धतहस्तकौ ॥८॥ एवं विद्याधरा: प्रोक्ताः सर्वाभरणभूषिताः । नृत्तं वा वैष्ण(ण)वं वापि वैशाख(ख) स्थानकं तु वा ॥३॥ गीतवीणाविधानश्च गन्धर्वमि(वश्चि)ति कथ्यते।। चरण(d) पशुसमानं चोर्ध्वकार्य [तु] नराभम् ॥ १० ॥ वदनं गरूडभावं बाहुको [च] पक्षयुक्तो। मकुट(ट) कमलयुक्तं पुष्पसच्छाय(य) वर्णम् ॥ ११ ॥ परित(तः) करुणवीणं किन्नरस्य [तु] स्वरूपम् ॥ १२ ॥
पति मानसारे वास्तुशास्त्र यक्षविद्याधरविधानं नाम पष्टपञ्चाशदध्यायः ॥