________________
24
मानसारे
पिण्यायः जानुवर्ष गुणांशं स्याजानुदारुतुङ्गकम् । पादं जानुसमोच स्यात्सप्तलामिति स्मृतम् ॥ १२ ॥ विद्याशं बाहुदीर्घ स्यात्कूपरं चार्धमात्रकम् । प्रोकोष्ठ पोडशशि स्यात्तलमष्टांशमायतम् ॥ १३ ॥ पादावामं च रुद्रांश मुखतारं सप्तमात्रकम् । प्रोवतारं शरांशं स्यात्तत्सम बाहुमूलके ॥१४॥ कचान्त मनुमात्रं स्याद् वक्षःस्थलविशाखकम् । हदयान्तं विशालं च द्वादशाङ्गुलमीरितम् ॥ १५ ॥ मध्योदरं विशालं स्यात्षोडशांशेन कारयंत् । कटितारं भास्करांशं स्यादष्टांशं चोरुविस्तृतम् ।। १६ ॥ जानुतारं शरांशं स्याज्जङ्घातारं युगांशकम् । नलकान्त त्रिमात्रं स्यात्तलतारं युगाडुलम् ॥ १७ ॥ बाहोरप्रविशालं स्याद् युगमा प्रशस्यते । प्रकोष्ठतारा(रम)र्धबन्धा(ध्वं) मणिबन्धं कला(गुणां)शकम् ॥ १८॥ 36 त्र्यांशं तलविस्तारं तलदीर्घ (दैय) युगाङ्कुलम् । अङ्गल्या(लिर)लदीर्घ स्यादगस्त्यं च(स्त्यश्च) समीरितम् (तः) ॥१६॥ षषणवत्यधिकांश स्यादष्टतालोदयं भवेत् । उष्णीष(पात) तु केशां(शमं)शं मूर्ध्नितुझं गुणांशकम् ॥२०॥ तस्मात्तु सार्धपत्यशं हन्वन्तं तन्मुखायतम् । तस्मात्कर्ण(ण्ठं) गुणांशं स्यात्तस्मात्तु हृदयान्तकम् ॥ २१ ॥ साधंदशांशं तस्मात्स(च स)मं नाभिकरान्तकम् । मध्योदरं च ए(तु चै)तस्मान्मेढांशं तु तत्समम् ॥२२ ।। तस्यापश्चैकविंशान्तमूरुदीर्घ (दैय) गुणांशकम् । जानुजबोरुतुल्यं स्यात्पादजानुसमोच्छ्रयम् ।। २३॥ मनुमात्रं पादायाम मुखतारं नवाङ्गुलम् । प्रोवतारं षडङ्गुल्यं बाहुपर्यन्तविस्तृतम् ॥ २४ ॥ त्र्यंशं व्यर्धमात्र स्याद् बाहुमूलं रसांशकम् । पाहुदीर्घ(दैर्घ्यमे)कविंशांशं कूर्परं सार्धमात्रकम् ।। २५ ।।