________________
सुनिलक्षणम्
ऋषीणां लक्षणं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना । अगस्त्यः काश्यपश्चैव भृगुर्वा (र्व) सिष्ठो भार्गवः ॥ १ ॥ विश्वामित्रस्तथा भारद्वाजः सप्तर्षयः क्रमात् । अगस्त्यं सप्ततालेन मानयेस्वङ्गमानकम् ॥ २ ॥ काश्यपं चाष्टतालेन मानयेदपि च भृगुम् । अन्यथा ऋषिसर्वेषां (र्वान् ) नवतालेन कारयेत् ॥ ३ ॥ श्यामवर्ण मगस्त्यं च काश्यपं पीतवर्णकम् ।
भृगुं [च] कृष्णवर्ण स्या(कुर्या ) द् वसिष्ठं रक्तवर्णकम् ॥ ४ ॥ भार्गवं पिङ्गलाभं स्याद् विश्वामित्रं च रक्तकम् । भरद्वाजं च हारिदं वर्णमेवं क्रमाद् विदुः ।। ५ ।। द्विभुजं च द्विनेत्रं च जटाजूटेन मण्डितम् । पीताम्बरधरं चैव सर्वेषामपि मुनीनाम् || ६ || कुब्जाकारं बृहत्कुच्चि कषायं पूर्णशोभितम् । अगस्त्यं चमि(चैबे)ति प्रोक्तमन्यं चमि ( चैवे ) ति पौरुषम् ॥ ७ ॥
सर्वेषामपि मुनीनां यज्ञसूत्रोत्तरीयकैः ।
दण्डं च सव्यहस्तेन वामहस्तेन पुस्तकम् ॥ ८ ॥ अथवा यष्टिं विना सव्ये हस्तौ सदृश (शौ) मुनीनाम् अथवाराध्यवत्कुर्यादासनानान्तु (नं स्थान ) कं तु वा ॥ ६ ॥ वेदाधिक्यं (त्यं) शकं (के) तुझे मूर्ध्नितुङ्गं गुद्यांशकम् ।
दशांश वक्रतुङ्गं स्याद् गुणांशं प्रोवतुङ्गकम् ॥ १० ॥ दशांशं हृदयान्तं स्यान्नाभ्यन्तं च दशाङ्गुलम् | भूतांश मेढसीमान्तं पीठांशं शुर ( श्रोणि ) गायतम् ॥ ११ ॥
4
12
16
20