________________
हर्म्यतारं(र)नवाशेन चैकैकं बेतुकम् । स्थावरं जङ्गमं चैव कन्यसादि त्रयं त्रयम् ॥१२॥ गर्भगेहसमं श्रेष्ठं नवांशैकांश कन्यसम् । द्वारतुङ्गविशाले तु नवमानं तु पूर्ववत् ॥१३॥ अधिष्ठानसमं श्रेष्ठं कन्यसान्तं नवोदयम् । हस्तादि नवहस्तान्तं कन्यसादि त्रयं त्रयम् ॥१४॥ एकतालं समारभ्य नववालावसानकम् । कन्यसादुत्तमान्तं स्यायजमानोदयं परम् ॥१५॥ केशान्तं नासिकाप्रान्तं हन्वन्तं बाहुसीमकम् । स्तनान्तं हृदयान्तं च नाभ्यन्तं मेढसीमकम् ॥१६॥ नवधा कन्यसान्तं स्यात्स्थावरं(र)जामोदयम् । मूलबेरवशं मानमुत्सवोदवमीरितम् ॥१७॥ मूलबेरोदयं श्रेष्ठं त्रिपादं मध्यमं भवेत् । तुझा कन्यसं प्रोक्तं त्रिविधं चोत्सवोदयम् ॥१८॥ अथवा तेन मानेन षोडशांश(शे) विभाजिते । एकैकांशकं तस्मात्पञ्चविंशांशकान्तकम् ॥१६॥ कन्यसादुत्तमान्तं स्यामवमानमुत्सवोदयम् । अथवा मूलबेरस्य केशान्तं तु ध्रुवान्तकम् ॥२०॥ नेत्रान्त नासिकाप्रान्त हन्वन्तं बाहुसीमकम् । स्वनान्तं हदयान्तं च नाभ्यन्तं च नवोदयम् ॥२१॥ कन्यसादुत्तमान्सं स्यामव वदुत्सवोदयम् । सत्सवे चा(त्सवस्या)मानेन कौतुकोदयमीरितम् ॥२२॥ वन्मानं चाट(नव)भागैक नवभागावसानकम् । पन्यसादुचमान्त स्यामवमानं कौतुकोदयम् ।। २३॥ हादि चाष्ट(नव)धा मानमायापर्थाशं कारयेत् । यथासंग्रहमानैश्च शतभाग(गे) विभाजिते ॥२४॥ एफैकांशाधिकं त्रिंशच्छतभागावसानकम् । स्थावरजमादीनां शुमायादिसंभवम् ॥२५॥