________________
जैनलक्षणम् सुगतजेनकादीनां लक्षणं मानपूर्वकम् । संक्षिप्य लक्ष्यते धुना मानसारस्य संग्रहम् ॥१॥ मानं चापि प्रमाणं च परिमाणं लम्बमानकम् । उन्मानमुपमानं च मान पनं समीरितम् ॥२॥ पादाङ्गष्टिससीमान्तं मानं चापि प्रकथ्यते । प्रमाणं विस्तृतं प्रोक्तं परितः परिमाणकम् ॥ ३ ॥ तत्सूत्रालम्बमान स्याग्निन्ममुन्मानमुच्यते । अन्तरे उ(चो)पमानं स्याद्विम्बोदयादि सर्वशः ॥४॥ मानमेवं तु षट्भेदं मानेनाङ्गानि मानयेत् । पादिमानविधि (धिः) सम्यग्लक्षनं च इ(णं तु चे)होच्यते ॥५॥ हर्म्यतारवशान्मानं गर्भगेहवशोदयम् । द्वारमानवशात्तुङ्गमधिष्ठानवशोदयम् ॥६॥ हस्तमानवशान्मानं तालमानवशोदयम् । पडलेनाभि(न तु) चोत्तुङ्गं यजमानवशोदयम् ॥७॥ मूलबेरवशान्मानमुत्तमादि त्रयं त्रयम् । एवं तु नवदेशे च महामानं तु संग्रहम् ॥८॥ हर्म्यमानं चतुर्मानं भोगमोक्षार्थकादि(मि)नाम् । हस्ततालवशान्मानं भोगमोक्षप्रदायकम् ॥६॥ अड्लानां तु यन्मानं कुर्यात्तु मोक्षकादि(मि)नाम् । कर्तबिम्बवशान्मानं सर्वसिद्धो(दो)दयं विदुः ॥१०॥ कर्तरी(रि) चानुवर्तन्ते(a) कायत्वादिमानकम् । तस्मादेवं तु प्रत्येकं नषमानमिहोच्यते ॥११॥