________________
२६४
अिध्यायः
मानसारे तदूर्ध्वं जात्य (त्यं)शसंयुक्तं [कुर्याद्] विधिवद् बुधः । मूलबेराङ्गलं चैव मानाङ्गलमेव वा ॥२६॥ मात्राङ्गुलं ततः प्रोक्तमङ्गलं त्रिविधं भवेत् । चतुर्विशचतुर्भागं मूलबेरोदयं भवेत् ।। २७ ।। मूलवेराङ्गुलं (लेन) चैव(च) मानयंदुत्सवोदयम् । यवताराष्टमात्र स्यान्मानाडुलमिति स्मृतम् ॥ २८॥ कर्तुषिणहस्तस्य मध्यमाइलमध्यमे । पर्वदीर्ध तत(त्त)लाई मात्राङ्गुलमुदीरितम् ॥ २६ ॥ एवं त्रिविधमुत्कृष्टं मध्यमष्टांशहीनकम् । त्रिपादं कन्यसं प्रोक्तं नवभेदाङ्गुलं भवेत् ॥३०॥ स्थावरं जङ्गमं मानं मानाजुलेन मानयेत् । मात्राोन चात्मार्थ बेरमानं प्रकल्पयेत् ॥ ३१ ॥ एकादशाङ्गुलमारभ्य द्विमङ्गुलविवर्धनात् । त्रयोनिच्छतान्तं स्याद् देहलब्धाङ्गुलेन वा ॥ ३२ ॥ नवाङ्गुलं समारभ्य द्विमङ्गुलविवर्धनात् । त्रयोविंशच्छतान्तं स्यान्मानाङ्गुलेन मानयेत् ॥ ३३ ॥ सप्ताङ्गुलं समारभ्य द्विवङ्गुलविवर्धनात् । त्रयोदशशतान्वं स्यान्माना(त्रा)इलेन मानयेत् ॥ ३४ ॥ मङ्गलानां तु सर्वेषां जात्यंशकं विवर्जयेत् । कुर्यादायादिषड्वर्गमुक्तवच्छिल्पिव(ल्पवि)त्तमः ॥३५॥ स्थावरं जङ्गमं चैव सचणं वक्ष्यतेऽधुना । द्विभुजं च द्विनेत्रं च मुण्डतारं च शीर्षकम् ॥३६॥ ऋजुस्थानकसंयुक्त तथा चासनमेव च । समाधि जु(ज्वा)कार स्थानम्बहस्तद्वयं तथा ॥ ३७॥ पासनं च द्विपादौ च पद्मासनं तु संयुतम् । अजुकं च जो(जु)मावं योगं तत्परमान्त(ल्म)कम् ॥ ३८॥ सव्यापसव्यहवं च मूलोयोर्ध्वमुखं करौ।। सानक चासन पापि सिंहासनोपरि न्यसेत् ॥ ३९ ॥