________________
५४]
३५६
112
116
120
शक्तिलक्षणम् स्थापयेत्स्थावरे गौरी तथा जङ्गममेव च । गौरी च पार्वती चैव मनोमन्या(न नन्मादिनी)मथ वक्ष्यते ।। ५५ ॥ चतुर्भुजां त्रिनेत्रां च जटामकुटमण्डिताम् । समपदस्थानक (का) देवों दशतालंन मानयेत् ॥ ५॥ दक्षिणे चाभयं पूर्वे वरदं वामहस्तके । प्रपरे दक्षिणे चाब्जं वामहस्ते तु चोत्पलम् ।। ५७ ॥ श्वेतरक्तं च वर्ण वा श्यामवर्णाङ्गशोभित(ता)म् । कंचित्तु कुन्तल निभं तुझं मकुटं कुन्तलं तु वा ॥ ५८॥ वामे बालशशिं(शिनं) कुर्यादवामे तुरगा(गम)न्वितम् । दुकूलवसनोपेतं(ता) सर्वाभरणभूपित(ता)म् ।। ५६ ।। तदेव वृषमाश्रित्य पृष्ठे देवी त्रिभागिकम् । दक्षिणं स्वस्तिकं पादं वामपादं च कुञ्चितम् ।। ६०॥ पुरतो वामहस्ताक्ष(मे) शिरस्या(स उ)पार विन्यसेत् । शेषं तु पूर्वविद्]देवी च चोत्पलं वासनाभयम् ॥६१ ॥ तदेव परहस्तौ च वामे रक्ताब्जधारिणीम् । दक्षिणे चाक्षमाला(लां) च कुर्यात्प्रोक्तं पुरातनैः ॥ ६२ ॥ एवं मनो(न ड)न्मनी शक्त्या (क्ति) स्थापयच्छिवहर्म्यके । वाराही चैव कौमारी चामुण्डी भैरवीं तथा ॥६३ ॥ माहेन्द्रो वैष्णवी चैव ब्रह्माणी सप्तमातरः । एतेषा(तासा) सर्वशक्तीनां नवतालेन कारयेत् ॥ ६४॥ भद्रपीठोपरि स्थाप्यमा(प्या पा)सने सप्तमातरः । शयने दक्षिणे पादान वामपादान्प्रलम्बयंत् ।। ६५ ।। चतुर्भुज(जा) त्रिनेत्रैश्च सर्वाभरणभूषिणीम् । चामुण्डी चैव रुद्राणी तानि(सा च) शक्तिः त्रि(स्त्रि)जोचनी ॥६॥ प्रमाणी चैव रुद्राणी जटामकुटमण्डिता(ते)। बाराही पोत्रवत्री स्यात् किरीटमकुटान्वित(ता)म् ॥६॥ कौमारी करण्डमौली च किरीटी(टिनी) वैष्णवी तथा(च)। चामुण्डी वाल(जटा)माली च भैरवी पिबरालका[म्] ॥६॥
124
128
182
186