________________
३६०
मानसारे
शूरु [द्]गणं चैव पूर्व चापरदक्षिणे । कपालं पूर्वहस्ते च पाशं चापर हस्तकौ (के) ॥ ६६ ॥
एवं तु वान (ख)मुद्धृत्य चामुण्डी भैरवी उ (चा)भा (भे) । चामुण्डी श्यामवर्णाभा भैरवी रक्तवर्णिनी ॥ ७० ॥ चित्तु भैरव पूर्वे वरदाभयहस्तकौ ।
शूलं डमरुकं चैव सव्यवामकेऽपरे [तु] ।। ७१ ।। रक्ताम्बरप(घ)रा पार्श्वे कुचाभी रक्तकञ्चुला । चामुण्डी च शिरोमाला सर्वाभरणभूषिणी ।। ७२ ।। कृष्णाम्बरधरी (रा) कृष्णलम्बकूर्चास भैरवी । वैष्णवी चैव वाराही श्यामवर्णा विशोभिनी ॥ ७३ ॥ चक्रं च दक्षिणे हस्ते शङ्खं वामकरेऽपरे । पूर्वे च वरदं वामे दक्षिणे त्वभयमुभा || ७४ ॥
पीताम्बरं च संरक्तां सर्वाभरणभूषिणीम् । एवं तु वैष्णवी प्रेक्ता वाराही दक्षिणे हलम् ।। ७५ । वामहस्ता परि (स्ते परे) पाशं दक्षिणेत्वभ करे । वरदं वामहस्ते तु सर्वाभरणभूषिणीम् ॥ ७६ ॥ पीताम्बरधरं ( रा ) चैव कौमारी रक्तवर्णिनी । वरदं चाभयं पूर्वे वामे तु द्वारहस्तकौ ॥ ७७ ॥ दक्षिणे च [कपालं] स्यात् श (च्छ) क्तिं च वामहस्तकौ । श्यामवर्णाम्बरं (रा) चैव सर्वाभरणभूषिणीम् ॥ ७८ ॥ कौमारीलक्षणं प्रोक्तं ब्रह्माणी च चतुर्मुखी । वरदाभयहस्तौ च कुण्डिकासाक्षमालाधृक् ।। ७६ ।। वामेत्ववामपूर्वे तु चा[क्षमाला] यथाक्रमम् । शुद्धवस्त्रा(रक्ताम्बरयुक्तां सर्वाभरणभूषिणीम् ॥ ८० ॥
मुक्त (ता) तथा ब्राह्मो रुद्राणी श्वेतवर्णिनी । वरदाभयहस्तौ च पूर्वे च वामदक्षिणे ॥ ८१ ॥ 'वामे च हरिणं सव्ये परुशं परद्दस्त के । चर्माम्बरधरायुक्ता सर्वाभरणभूषिणी ॥ ८२ ॥
[चध्यायः
140
144
148
152
156
160
164