________________
३५९
84
मानसारे मानयेद् दशवालेन सर्व शेषं तु पूर्ववत् । मकरकुण्डलसंयुक्तां सर्वाभरणभूषिणीम् ॥४१॥ भूशक्तिलक्षणं प्रोक्तं गौरीचक्षणमुच्यते ।। द्विभुजं(जा) च द्विनेत्रं(त्रां) च कुर्यादासन(ने) स्थानक(के) तु वा ॥ ४२ ॥ करण्ड केशबन्धं वा कुन्तलं मकुटं भवेत् । दक्षिणे चोत्पलं वामे वरदं स्थानमेव वा ॥ ४॥ अथवा लम्बहस्तं स्याद् गोवालाकारवद् भवेत् । दुकूलवसनोपेता पोताम्बरधरामेव वा ॥४४॥ दीर्घबाहुं विशालाक्षों श्यामवणी महोदराम् । स्तनतटोत्तुङ्ग(ङ्गा) विस्तीर्णश्रोनि(णि)देशोद्भवा भवेत् ॥ ४५ ॥ कटि चोरु विशालं स्यान्मध्यकञ्चीनलम्बवत् । विशालास्य(लमास्य) सुग्रीवं तुङ्गतुण्डं स्मिताननम् ।। ४६ ।। चन्द्ररेखावतंसं स्याद् भ्रमरावृतमा लिकम् । अथवा फालपट्टे स्यात्कर्ण योहिकुण्डलो ।। ४७ ॥ कर्णपुष्पैश्च दाम(म) स्थाढेमसूत्र सुमङ्गली । हारोपप्रोवसंयुक्तां बाहुमालाविभूषिणीम् ।। ४८॥ कटकं कटिसूत्रं स्यात्केयूरपुरिमान्वितम् । रक्तांशुकोत्तरीय स्यान्मौक्तिकोत्तरीयमेव च ॥ ४६॥ प्रकोष्ठवलयं चैव वलयैर्मणिबन्धकैः । भुजाकटकाधिको पादनूपुरसंयुतम् ॥ ५० ॥ सर्वाङ्गला(लमु)क्तवज्ज्ञात्वा कुर्याद्रक्ताङ्गलीयकैः । दक्षिणे कुश्चितं पादं वामपादं तु लम्बितम् ॥ ५१ ।। पुष्पं च वरदं स्थाने हस्तं वामेऽथ चासने । दक्षिणं स्वस्तिकं पादं वामावन्तकरान्तकम् ॥५२॥ कृश्चित वामपादं स्याद् दक्षिणं कुञ्चितं तु वा । पुष्पक लम्बहस्तं स्यात्स्थानकं च त्रिभागिकम् ॥ ५३॥ मानयेदङ्गमानं च मध्यमं दशतालके । खिङ्गस्य वामपार्श्व तु विप्रहाणां तु वामके ॥५४॥