________________
मानोपकरणविधानम्
शिल्पिलक्षणपूर्वकं मानापकरणविधानम् शिल्पिना वक्षणं वक्ष्ये मानोपकरण(ण) मात् । परःशिवसकाशाद्धि ब्रह्मा इ(चे)न्द्रोऽपि लोककृत् ॥ १॥ स महाविश्वकर्मेति ई(त्वी)श्वरेणैव कीर्तितः । स एवायं विश्वकर्मा ब्रह्माण्डं सृजते मुहुः ॥ २ ॥ विश्वकर्मा चतुर्वर्ण(र्वत्रा) जाति(तो) ब्रह्मादिवर्ण(वक्र)वत् । पूर्वोक्तवर्ण (पूर्ववत्रादीनि) चत्वारि नाम(मानि) वक्ष्ये पृथक् पृथक् ॥ ३ ॥ विश्वभूरिति नामैतत्पूर्ववक्त्रं प्रकीर्तितम् ।। दक्षिणे विश्वविद्वक्त्रं विश्वस्त(स्थ)श्च तथोत्तरे ॥ ४॥ पश्चिमे विश्वस्रष्ट्राख्यं वन मेवं चतुर्विधम् । एतेभ्यः प्रथमो जातो विश्वकर्मा चतुष्टयः ॥ ५ ॥ पूर्वानने विश्वकर्मा जायते दक्षिणे मयः । उत्तरस्य मुखे त्वष्टा पश्चिमे तु मनुः स्मृतः ॥ ६ ॥ उपयेमे विश्वकर्मा इ(त्वि)न्द्रस्य तनयां तदा । मयः सुरेन्द्रतनयामुपयेमे कमात्ततः ॥ ७ ॥ त्वष्टा वैश्रवणसुतामुपयेमे त्वनन्तरम् । मनुर्नलस्य तनयामुपयेमे तु तुर्यकम्(कः)॥८॥ विश्वकर्माख्यनाम्रोस्य(इत्यस्य) पुत्रः स्थपतिरुच्यते । मयस्य तनयः सूत्रमाहीति परिकीर्तितः ॥६॥ त्वष्टुर्देव-ऋषेः पुत्रो वर्षकी(किरि)ति प्रकथ्यते । मनोः पुत्रस्तक्षक: स्यात्स्थपत्यादि चतुष्टयम्ये ॥ १०॥ स्थपतिस्तु स्वतुर्येभ्यस्त्रिभ्यो गुरुरिति स्मृतः । सूत्रपाही गुरुभ्यिां तुर्येभ्योऽद्य इति स्मृतः ॥ ११ ॥ वक्षकस्य गुरुर्नाम(ना) वर्धकी(किरि)ति प्रकीर्तितः । स्वपतिः सर्वशास्त्रज्ञः सूत्रमाहीति सूत्रधृत् ॥ १२ ॥ वर्धकी(किर) मानकर्मज्ञः तक्षणात्तक्षकः स्मृतः । स्थपतिः स्थापनायाईः वेदविच्छात्रपारगः ॥ १३ ॥