________________
मानसारे मण्डपम विधानं च शालानां चैव खक्षयम् । विन्यासश्च गृहस्थाच गृहप्रवेशलक्षणम् ।। ११ ॥ द्वारस्थानविधिं चैव द्वारमानस्य लक्षणम् । राजहर्म्यविधिं चैव राज्याङ्गस्य तु लक्षणम् ॥ १२ ॥ भूपतितक्षणं चैव यानादिरथलक्षणम् । शयनस्य लक्षणं चैव सिंहासनस्य लक्षणम् ॥ १३ ॥ तोरण(गस्य) मध्यरङ्गस्य कल्पवृक्षस्य लक्षणम् । अभिषेकलक्षणं चैव सर्वभूषणलक्षणम् ॥ १४ ॥ ब्रह्मादीनां त्रिमूतेश्च लक्षणं लिङ्गलक्षणम् । पीठस्य लक्षणं चैव शक्तीनां लक्षणं तथा ॥ १५ ॥ बौखस्य जैनिकानां च लक्षणं मुनिलक्षणम् । यचाविद्याधरादीना खक्षणं भक्तलक्षणम् ॥ १६ ॥ ब्रह्मदीनां च देवानां तत्तद्वाहनलक्षणम् । लक्षणं प्रतिमानां चोत्तमदशतालस्य च ॥ १७ ॥ सीमानाय मध्यमस्य दशवालस्य लक्षणम् । प्रलम्बलक्षणं चैव मधूच्छिष्टविधानकम् ॥ १८ ॥ तथा च वक्ष्यते सर्वमङ्गदोषविधानकम् ।] नयनोन्मीलनं चैव लक्षणं वक्ष्यते क्रमात् ।। १६ ॥ मानसार-ऋषि(षीणां) कृत(त)शावं मानसारमुनिनामकमासीत् । तत्तु शिल्पिवरदेशिकमुख्यैः स्वीकृतं सकललक्षणपूर्व[क]म् ॥ २० ॥
इति मानसारे वास्तुशास्त्रे संग्रहा नाम प्रथमोऽध्यायः ।