________________
मानसारम्
संग्रहः
उत्पत्तिरक्षणलयान जगतां प्रकुर्वन् भूवारिवहिमरुतो गगनं च सूते । नानासुरेश्वरकिरीटविलोलमालाभृङ्गावलीढचरणाम्बुरुहं नमामि ॥१॥ गडाशिरःकमलभूकमलेक्षणेन्द्रगीर्वाणनारदमुखैरखिलैर्मुनीन्द्रैः । प्रोक्तं समस्ततरवस्त्वपि वास्तुशास्त्रं तन्मानसार-ऋषिणापि हि लक्ष्यते स्म ॥२॥ मानोपकरणं चादी शिल्प[ल्पि] लक्षणपूर्वकम् । अब वास्तुप्रकरणं भूपरीक्षाविधि तथा ॥ ३ ॥ भूसंग्रहस्ततः प्रोक्तं शङ्कस्थापनलक्षणम् । देवादीनां स्थापनाय पदविन्यासलक्षणम् ॥४॥ बलिकर्मविधिं चैव प्रामादीनां च लक्षणम् । नगरीलक्षणं चैव भूमिलम्बविधानकम् ॥ ५॥ गर्भन्यासविधिं चैव चोपपीठस्य लक्षणम् । प्रविष्ठानविधिं चैव पादमानस्य लक्षणम् ॥६॥ प्रखरस्य विधिं चैव सन्धिकर्मस्य(ण) लक्षणम् । विमानलक्षणं चैवमेकभूम्याश्च लक्षणम् ॥ ७॥ द्वितलस्य विधिं चैव त्रितलस्य विधानकम् पतुस्तलविधि चैव पञ्चभूम्याश्च लक्षणम् ।।८।। षटसप्ततलकं चैवमष्टभूनवभूमिकम् । दशभूमिविधान च रुद्रभूमिविधानकम् ॥६॥ वलं द्वादशकं चैव प्राकाराणां च लक्षणम् । परिवार चैव(च) गोपुराणां च लक्षणम् ॥१०॥