________________
।
च्यते।
अध्यायः ५३]
पीठलक्षणम् तदेकांशाधिकं वापि पूर्वोक्तं नालदीर्घके । प्रोवोय चोकमानं यन्नालस्य बहु(ह)लं भवेत् ॥ ११ ॥ नालवारं(र)त्रिभागैकं जलधारविशालकम् । पीठस्योद्यं विशाले तु चतुष्पञ्चषडंशके ॥१२॥ एकांशेन शेषं तु(स्याद्) वृतवारिविशालकम् ।
(कृ)तवारिविशाले तु तत्तदश(शं) विभाजिते ॥१३॥ एकांशं निम्नविस्तारं पट्टिकान्तसमन्वितम् । नन्द्यावर्तशिला चोवें तस्मानारायणान्तकम् ।। १४ ॥ पीठतुङ्गमिति प्रोक्तं गण्यमानमिहोच्यते । उत्सेधे षोडशाशे तु प्रथमोचं द्विभागिकम् ॥ १५ ॥ पग्रोचं तु त्रिभागं स्यात्तदूर्ध्व क्षेपणांशकम् । कन्धरं च त्रिभागं स्यात्तदूर्ध्व कम्पमंशकम् ॥ १६ ॥ ऊर्ध्वपनं त्रि (त्रयां)शं स्याद् वाजनं च त्रिभागिकम् । एकांशं घृ(घ)तवारि स्याद् भद्रपीठमिति स्मृतम् ॥ १७ ॥ तदेव गलदेशे तु कुमुदं(द)निर्गमं भवेत् । त्रियप्र(त्रयांश) वृत्तकुम्भं वा श्रीभद्रमिति कीर्तितम् ॥१८॥ कुम्भस्योपरि तस्याधश्चार्धाधन पद्मयुक् । तस्याधोऽधन(न)कार्धेन कुर्यात्तत्तद्विचक्षणः ॥१३॥ शेष तु पूर्ववत्पीठं श्रीविशालमिति स्मृतम् । अथवा कुम्भ दिग्भागं पातुङ्गं युगांशकम् ॥२०॥ शेष प्रागुक्तवत्कुर्यादुपपीठं प्रकल्पयेत् । प्रववाधिष्ठानवद् गुमं कुर्यात्तत्सर्वलिङ्गके ॥२१॥ यत्तुङ्गस्य वशावेशं पीठकर्णावसानकम् । पवारादिहीनं स्यात्सर्वदोषसमुद्भवम् ॥२२॥ तस्मातु निर्गमं कुर्याद् विस्तार तत्प्रकल्पयेत् । कुर्यात्तु नागरे लिङ्गे पीठं नागरमेव च ॥२३॥
44