________________
लिङ्ग विधानम् शुद्धद्वारोदर्य नन्दभागं कृत्वा विशालकम् । एकैकं लिङ्गतुङ्गं स्यात्कन्यसादीनि पूर्ववत् ॥ १२ ॥ प्रत्येकं तु त्रिधा मानं साष्टादश ( चैकाशीति) च लिङ्गकम् । प्रासादस्य विशाले तु गर्भगेहो (हमु ) तद्भवेत् ॥ १३ ॥ अधिष्ठानसमं श्रेष्ठं त्रिपादं मध्यमं भवेत् । तदर्ध कन्यसं प्रोक्तं त्रिविधं लिङ्गमीरितम् ॥ १४ ॥ अथवा नवभागं स्यान्नवलिङ्गमुदाहृतम् । कन्यसादुत्तमान्तं स्यात्प्रत्येकं पूर्ववद् भवेत् ।। १५ ।। पादोदय नवांशं नवधा लिङ्गमानकम् ।
तदेवं चैकभागे तु चतुर्भाग (गं) विभाजिते ॥ १६ ॥ एकैकं लिङ्गतुङ्गं स्यात्षट्त्रिंशं लिङ्गतुङ्गकम् । कन्यसादुत्तमान्तं स्यात्सर्व प्रागुक्तवन्नयेत् ॥ १७ ॥
चध्यायः ५२ ]
तु दे (न) वशं स्यात्कन्यसादि त्र्यं त्रयम् । एवं तु नवलिङ्गं स्यान्नवभेदादयं भवेत् ॥ १८ ॥ केचिद्विमानतुङ्गे तु नन्दनन्दांशकं भवेत् । एकैकं लिङ्गतुङ्ग स्यान्नन्दनन्दोदयं भवेत् ॥ १६ ॥ कन्यसादुत्तमान्तं स्यात्पूर्व वल्लिङ्गमिष्यते । एकहस्तं समारभ्य हस्तैकेन प्रवर्धयेत् ॥ २० ॥
एकैकं लिङ्गतुङ्ग स्यान्नवहस्तावसानक्रम् । एवं तु नवतुङ्गं स्यात्कन्यसादि त्र्यं त्रयम् ॥ २१ ॥ करं (र) त्रिपादमारभ्य तत्समेन विवर्धनात् । पादानसप्तहस्तान्तं पूर्ववन्नवलिङ्गकम् ॥ २२ ॥ अथवा हस्तमारभ्य सा(चा)र्धहस्तेन वर्धनात् । सार्धवेदकराएं (न्तं) स्यान्नव लिङ्गोदयं भवेत् ॥ २३ ॥ पादहस्तं समारभ्य पादहस्तेन वर्धनात् । पादाधिकद्विहस्तान्तं नवलिङ्ग तु पूर्ववत् ॥ २४ ॥ जातिच्छन्दं विकल्पं च प्रा(तु चा) भासं तु चतुर्विधम् । एकहत्तवशात्सर्व कन्यसादि त्रयं त्रयम् ।। २५ ।।
३३६
24
28
32
36
40
44
48