________________
लिङ्गविधानम् . लिङ्गमानविधि (धिः) सम्यगलक्षणं वक्ष्यतेऽधुना। शैवं पाशुपतं चैव काला(ल)मुखं महावृ(ब)तम् ॥ १॥ वामं च भैरवं चैव लिङ्गवा (स्य) मान(नाम) षविधम् । समकर्ण वर्धमानं शिवाई स्वस्तिकं तथा ॥२॥ एतचतुर्विधं लिङ्गं विप्रादीनां च योग्यकम् ।। समकर्ण भूसुराणा भूपानां वर्धमानकम् ।। ३ ॥ वैश्यानां च शिवाधिक्य(वाएं च) परेषां स्वस्तिकं भवेत् । विप्राणां सर्वलिङ्गं च कुर्यादापो न विद्यते ॥ ४॥ शिवाधिक(वाईच) स्वस्तिकं प्रोक्तं लिङ्गं भूपस्य योग्यकम् । स्वस्तिकं च शिवाधिम्य(वाई च) वैश्यानामपि योग्यकम् ॥ ५ ॥ शुद्धगर्भगृहे द्वारे प्रासादस्य विशालकम् प्रधिष्ठानोदये पाद तुङ्गमानं तथैव च ॥६॥ हस्तमानाङ्गलेनैव यजमानोदयेन च । एतत्तत्तद्विधि(धिः) प्रोतं प्रत्येकं बहुधा भवेत् ॥७॥ श्रेष्ठादीनि कनिष्ठान्तं प्रत्येकं त्रित्रिमानकम् । गौ नन्दविभागे तु ए(चै)कैकं लिङ्गतुङ्गकम् ॥८॥ केचित्तदेकमागे तु नवभाग(ग) विभाजिते । वदेकाशीवि विङ्गस्य(ङ्गं स्यात्) कन्यसादुत्तमान्तकम् ॥ ६ ॥ प्रत्येकं तन्त्रिधामानमेकैकं लिङ्गतुङ्गकम् । कन्यसा गर्भतारार्थ(ध) त्रिपादं मध्यमं भवेत् ॥ १०॥ गर्भतारसमं श्रेष्ठं त्रिविधं लिङ्गतुकम् । गर्भगेहे तु मान स्थाखिङ्गतुङ्गं प्रकल्पयंत् ॥ ११ ॥