________________
मानसारे दक्षिणे त्वमयं पूर्व सव्ये चापर(१) चक्रयुक् । प्रपरे वामहस्ते तु पाञ्चजन्यावधारणम् ॥२६॥ तत्समं कर्णपत्रं स्यात्कुर्यान्मकरकुण्डलम् । प्रसन्नवदनं तुझं नासि दीर्घातिशोभितम् ॥२७॥ हारोपप्रीवसंयुक्तं यज्ञसूत्रोत्तरीयकम् । रनोदरबन्धं स्याद् बाहुमालाविभूषितम् ॥२८॥ कटकं कटिसूत्रं च केयूरं रखपूरितम् । रत्नाडुलीयकैयुक्तं पादजालविभूषितम् ॥२६॥ नलकान्तं चलान्तं स्यात्पीताम्बरविलम्बनम् । शिरश्चक्रं शिरःपृष्ठे युक्तं सर्वाङ्गभूषणम् ॥३०॥ द्वयोर्जबावसानं स्याद् वनमालामनोहरम् । एवं तु विष्णुमूर्तिः स्याच्छक्तियुक्तं(क्ता) तु पार्श्वयोः ॥ ३१ ॥ त्रि(श्री)भूमि दक्षिणे वामे स्थावरे जङ्गमेऽपि वा । कुर्यादासनं वापि स्थानकं चापिमे (ए)व च ॥ ३२ ॥ चतुर्भुज त्रिणे(ने)त्रं च जटामकुटमण्डितम् । व्याघ्रचर्माम्बरं जानु चो(नोरू) च समलङ्कृतम् ॥३३॥ नीव्याञ्चलं च संयुक्त रक्तवर्णाङ्गशोभितम् । हारोपग्रीववक्षस्तु साल(कपाल)मालावलम्बनम् ॥३४॥ करोटि(स्ट)रत्नबन्ध स्याद् रुद्रबन्धमथापि वा । पत्रोदरं च बन्ध वा रनोदरनिबन्धनम् ॥ ३५॥ कटकं कटिसूत्र स्यात्केयूरं पूरिमान्वितम् । बाहुभूला(लम)भिदामैश्च सर्वाभरणभूषितम् ॥३६॥ वामे तु लम्बपत्रं स्यादवामे [म]करकुण्डलम् । प्राचभयहस्तं सर्वे वरदं वामहस्तके ॥३७॥ प्रपरे वामसव्ये तु हरिणद्रधारणम् । मकुटं वामपार्वे तु चन्द्ररेखासमन्वितम् ॥ ३८॥ दक्षिणे चार्कपुष्पैश्च नागं गङ्गा जटान्तरे। दूर्वाभिः सुवर्णसिन्दुरं पुष्करं स्यान्मकटान्तरे ॥३६॥