________________
३३१
248
252
256
भूषणलक्षणम् नवाङ्गुलं समारभ्य पञ्चविंशाकुलान्तकम् । पूर्ववन्नवधा प्रोक्तं विशालं तुझं पूर्ववत् ॥ १२४ ॥ विस्तारं तु समानं स्याद् गोधारैः(रस्य) पजरान्वितम् । साधंहस्व समारभ्य षट्पडगुलवर्धनात् ।। १२५ ॥ अर्धाधिकं त्रिहस्तान्तं कन्यसादि त्र त्रयम् । नवधा व्याघ्रनीडं स्याद्विस्ता परिकीर्तितम् ॥ १२६ ॥ उत्सेधं पूर्ववत्कुर्यात्समारं तद्विशालकम् । चतुरङ्कभित्तिः स्यावतुःस्तम्भसमन्वितम् ॥ १२७॥ मध्यद्वारं तु संकल्प्य कवाट चैकमेव च । उत्सेधे तु षडंशं स्यात्पादुकं चैकभागिकम् ॥ १२८॥ पादोश्चं तु युगांशं स्यादेकांशं चोर्ध्वपट्टिका । प्रथवाष्टांशतुङ्गे तु चैकांशं पादुकोदयम् ।। १२६ ।। षड्भागं पादतुङ्गं स्यादेकांशमूर्ध्वपट्टिका । चतुष्कं च चतुर्दारु पादुकं चोर्ध्वपट्टिका ॥ १३०।। कुर्यात्कर्करि(रिं) कोणे तु पादमूलाप्र(मे) योजयेत् । अाधो निर्गमं शूले त्रिर्यकोलं प्रयोजयेत् ॥ १३१॥ एकद्वित्रिचतुर्मानं पादविष्कम्भमिष्यते । द्वित्रिवेदचतुष्पञ्चषट्सप्ताङ्गुलकं तथा ॥ १३२॥ पट्टिकोपानविस्तारं यथायुक्त्या प्रयोजयेत् । ऊर्ध्वाधश्व चतुर्दिनु वातायनं समुद्भवेत् ॥ १३३॥ तरङ्ग(तुङ्गे च) वेत्रसंयुक्तं कुञ्जराक्षरलङ्कतम् । पादानां चतुरश्र वा चोक्तवत्समलवृत्तम् ॥ १३४ ॥ वदेव चोर्ध्वदेशे तु कृत्वा चक्राकृतिस्तथा । सर्वालङ्कारसंयुक्तं कुर्यात्तु सर्वनीडकम् ॥ १३५ ॥ चातकस्य चकोरस्य दण्डकाकृतिवद् भवेत् । द्वितृतीये(वय)चतुष्पञ्च वासं कुर्यात्तु दीर्घके ॥ १३६ ॥ शेष प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् । शुकस्य पखरे तुङ्गे चाष्टभाग(ग) विभाजिते ॥ १३७॥
260
264
268
272