________________
[प्रध्यायः
220
224
228
मानसारे शुकपचरविस्तारं नवधा परिकीर्तितम् । उत्सेधं पूर्ववत्कुर्यात्समग्रं चापि विस्तृतम् ॥ ११० ॥ सप्ताहुलं समारभ्य द्विद्मगुलविवर्धनात् । प्रयोविंशाङ्गुलान्तं स्यान्नवधा कन्यसादिभिः ॥ १११ ॥ चातकस्य चकोरस्य पञ्जरस्य विशालकम् । विस्तारं द्विगुणं वापि त्रिगुणं वा चतुर्गुणम् ॥ ११२ ॥ पायाममिति हि प्रोक्तमुत्सेधं पूर्ववद् भवेत् । एतत्तु दण्डकाकारं मरालस्यापि योग्यकम् ।। ११३ ॥ तदेव चतुरश्रं स्यानोडं पारावतस्य च । पञ्चविंशाङ्गुलमारभ्य षट्पडङ्गुलवर्धनात् ॥ ११४ ॥ सैकाष्टकनन्दमात्रान्तं कन्यसादि त्रयं त्रयम् । पखरं नीलकण्ठस्य नवधा विस्तृतं भवेत् ॥ ११५ ॥ सममेवं विशालं स्यादुत्सेधं पूर्ववद् भवेत् । पञ्चाङ्गुलं समारभ्य द्विद्मङ्गुलविवर्धनात् ॥ ११६ ॥ एकविंशाङ्गुलान्तं स्यात्कन्यसादि त्रयं त्रयम् । कुखरीयकुलालस्य नवधा विस्तृतं भवेत् ॥ ११७ ॥ उत्सेधं पूर्ववत्कुर्यात्समतारं समाश्रकम् । सप्ताङ्गलं समारभ्य द्विमङ्गलविवर्धनात् ॥ ११८ ।। त्रयोविंशाङ्गुलान्तं स्यात्कन्यसादीनि पूर्ववत् । विशालं नवधा प्रोक्तं खजरीटस्य पञ्जरम् ॥ ११६ ॥ समारं चतुरअं स्यादुत्सेधं पूर्ववद् भवेत् । पञ्चदशाङ्गुलमारभ्य द्विमङ्गुलविवर्धनात् ॥ १२० ॥ एकाद(कत्रि)शाङ्गुलान्तं स्यान्नवधा कन्यसादिभिः । कुक्कुटस्य कुलालस्य विशालं तुझं पूर्ववत् ॥ १२१ ।। एकादशाङ्गुलमारभ्य द्विमङ्गुलविवर्धनात् । सप्तविंशाङ्गुलान्तं च कन्यसादि त्रयं त्रयम् ॥ १२२ ॥ विशालं पूर्ववत्तं तु नकुलस्यापि पचरम् । चटकस्य पश्चरस्य तित्तिरीवोक्तवत्कुरु ॥ १२३ ॥
232
236
240
244